________________
१६४.
काव्यमाला |
लुम्बीओ अङ्गणमाहवीण दारग्गलाउ जाआउ । आसासो पन्थपलोअणे वि पिट्टो गअवईणम् ॥ २२ ॥
[ स्तबका अङ्गणमाधवीनां द्वारार्गला जाताः । आश्वासः पान्थप्रलोकनेऽपि नष्टो गतपतिकानाम् ॥ ] अङ्गणमाधविकानां स्तबका द्वारार्गला जाताः । विगतो गतपतिकानां पान्थविलोकेपि चाश्वासः ॥ २२ ॥ अणे प्ररूढा या माधविका वासन्त्यो लतास्तासाम् । स्तबका गुच्छकाः । तवानुध्याननिश्चला सा प्रायो निर्जने भवनमध्य एव तिष्ठति । सांप्रतं च वसन्तसमागमेन अङ्गणमाधविकानां स्तबकोद्गमः संजातः । तथाच समुद्दीपितविरहहुतवहा चिन्तालीनमानसतया नोत्थाय वहिरण्यागन्तुं प्रभवतीति स्तबका द्वारस्यार्गलायिताः समभवन्नित्याशयः । अत एव गतपतिकानां प्रोषितपतिकानाम् । पान्थानां विलोकनेपि आश्वास विगतः आशावलम्बनं नष्टम् । भवत्पथमवलोकयन्ती सा समजीव देतावत्कालं तदपि माधविकागुच्छ कैस्तिरोहितमिति वेदनातिशयो ध्वन्यते । पान्थविलो केपि चाश्वासो विगत इत्यनेन - न सा अन्यं प्रति दृष्टिमपि निक्षिपति, तदेवं त्वदेकमात्रजीवितामेतां नाधिकं क्लेशयेत्यपि ध्वन्यते । द्वारार्गला जाता इत्यनेन न कश्चनान्यः पुरुषो द्वारमात्रमपि प्रवेष्टुं लभत इति द्योत्यते, किं बहुना मनोविनोदाय पान्थान्प्रति दृनिक्षेपोपि नास्याः सुलभ इति परिरक्षितचारित्रैव सेयमिति सूच्यते । गतपतिकानामिति बहुवचनेन विरहिजनदुरन्तेस्मिन्वसन्ते सर्वासामेव प्रोषितपतिकानां सामान्येनेयं दशा, तत्रापि सेयं त्वदेकमात्रावलम्बना, त्वन्मार्गावलोकन विनोदमप्यलभमाना दुःखातिशयमनुभवतीति न यावदियं शोचनीयां दशामधिगच्छति तावत्त्वरितमेव संजीवनीयेति तत्कान्तं प्रति ध्वन्यते । लुम्बीति स्तबकवाचको देशी । 'दूती प्रोषितभर्तृकाङ्गणस्य माधवीलताकुञ्ज गहनत्वेन दिवैवाभिसरणयोग्यताम्, नायिकायाश्च वसन्तकालप्राप्त्योत्कण्ठातिशयेन सुसाध्यतां प्रतिपादयन्ती नायकमाह' इति गङ्गाधरावतरणम् ।
प्रियतमं प्रति नायिकायाः प्रणयातिशयं नयनयोः सौन्दर्यं च प्रकटयितुं सखी आहपिअदंसण सुहरसमउलिआइँ जड़ से ण होन्ति णअणाई । ता के कण्णरइअं लक्खिज्जइ कुवलअं तिस्सा ॥ २३ ॥
[ प्रियदर्शन सुखरसमुकुलिते यदि तस्या न भवतो नयने । तदा केन कर्णरचितं लक्ष्यते कुवलयं तस्याः ॥ ]
यदि नयने न हि भवतः प्रियदर्शनसुखनिमीलिते तस्याः । कर्णरचितं तदा कैः कुवलयमालक्ष्यते तस्याः ॥ २३ ॥
तस्या नयने प्रियदर्शन सुखस्य रसेन मुकुलिते यदि न भवतः, तदा कर्णयो रचितं निवेशितं तस्याः कुवलयं कैर्जनैरालक्ष्यते । आयतरुचिरयोस्तस्या नयनयोः कर्णे कुवलय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org