________________
काव्यमाला ।
न तस्या अन्यो वश इति मेघान्प्रत्यसूयोदयेनोत्कण्ठातिशयोभिव्यज्यते । अस्मिन्पक्षे पूर्वप्रतिपादितेन विषादनालंकारेण उत्कण्ठारूपो व्यभिचारी ध्वन्यत इति भावध्वनिः । पर्यन्ततस्तु पामरीनिष्टा रतिरेव परिपुष्यतीति रसध्वनिः । “अभ्युदयहेतुरपि कार्यवशादुद्वेगं जनयतीति प्रतिपादयनागरिकः सहचरमाह' इति गङ्गाधरावतरणम् ।
प्रवासार्थमुद्यतस्य दयितस्य गमननिवारणेच्छया विरहे भाविनं वेदनातिशयं सूचयितुं काचित्कामशरनमस्कारापदेशेनाह
दुम्मेन्ति देन्ति सोक्खं कुणन्ति अणुराअ रमावेन्ति । अरइरइबन्धवाणं णमो णमो मअणबाणाणम् ॥ २५ ॥ [दुन्वन्ति ददति सौख्यं कुर्वन्त्यनुरागं रमयन्ति ।
अरतिरतिबान्धवेभ्यो नमो नमो मदनबाणेभ्यः ॥] हुन्वन्ति ददति सौख्यं कुर्वन्त्यनुरागमथ च रमयन्ति ।
अरतिरतिवान्धवेभ्यो नमो नमो मदन वाणेभ्यः ॥२५॥ कामवाणा दुन्वन्ति उपतापयन्ति, उत्कण्ठां संवर्ध्य मनोवेदनां जनयन्तीत्यर्थः । नैकमात्रं परिहरणीया एवेत्साह-सौख्यं ददति, दयितसांनिध्ये रतेरभिवर्द्धनेन सुखं परिपोषयन्तीति भावः। ननु शनैःशनैरुत्कण्ठाशान्त्या स्यादुपरम इत्याह-अनुरागं कुर्वन्ति रतेः प्रवर्द्धनेन . प्रेमाणं प्रकर्षयन्तीत्यर्थः। अत एव रमयन्ति, सौमनस्यमेव संपादयन्ति । तथा च विरहे दुःखदातृत्वात् संगमे च सुखकारकत्वात् अरतेाकुलतायाः रतेश्चित्तरञ्जनस्यापि कारकेभ्यो मदनबाणेभ्यो नमः । अरतिबान्धवानामपि रतिवान्धवत्वेन विरो. धालंकारः। तथा च तव विरहे उत्कण्ठाभिवर्द्धनात्कियती पीडां जनयेयुरिमे, त्वत्सत्तायां तु अनुरागसंवर्द्धनान्मनोरमा एवेति त्वमेव विचारयेति प्रियं प्रति प्रवासस्थगनमभिध्वन्यते । दुन्वन्ति अरति इत्यनयोः प्रथमोक्त्या विरहे दुःसहवेदनाधिक्यं सूच्यते । तथा च सुखापेक्षया विरहे दुःखमेवाधिकमुत्पाद्यते स्मरशरैरिति गमनस्थगन एव तात्पर्यम् । बाणेभ्य इति बहुवचनेन पञ्चापि मयि युगपत्पीडां संचारयेयुरिति पीडातिशयो ध्वन्यते ।
शृण्वन्तं कञ्चन कामुकं प्रत्यात्मनो मनोव्यथां सूचयन्ती काचन मनसिजशरवर्णनाव्यपदेशेनाह
कुसुममआ वि अइखरा अलद्धफंसा वि दूसहपआवा । भिन्दन्ता वि रइअरा कामस्स सरा बहुविअप्पा ॥ २६ ॥ [कुसुममया अप्यतिखरा अलब्धस्पशी अपि दुःसहप्रतापाः ।
भिन्दन्तोऽपि रतिकराः कामस्य शरा बहुविकल्पाः ॥] कुसुममया अपि निशिता अकृतस्पर्शा अपि प्रतापाढ्याः।
मिन्दन्तोपि च रतिदाः कामशराः किल बहुविकल्पाः ॥ २६ ॥ निशिताः अतिखराः अतितीक्ष्णा इति यावत् । प्रतापाव्याः दुःसहपरितापकारकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org