________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
१६१
व्यज्यते । व्यञ्जनादिपदमनुपादाय रन्धनपदनिबन्धनेन - रन्धितमोदनादिकं यथाऽपरस्यैव कार्ये समुपयुज्यते, न च वैरस्योत्पादकं कालहरणमत्र प्रशस्यते । तथा च-नेयं केनचिदन्येन यावदभियुज्यते तावदेनामुपस्थितामनुकम्पस्वेति ध्वन्यते । छायायां 'नः' इति बहुत्वेन - नैकस्य कस्यचन वशः किं तु बहवोपि वयमस्मिन्कुस्थलेन्यं प्रबन्धं कर्तुं न प्रभवाम इति विवशतातिशयोभिव्यज्यते । भुङ्खति मूलानुरोधि पदम् । अन्यथा तु 'स्वादय यत्स्वाधीनम्' इत्यपि बन्धबन्धुरं स्यात् । कुगाम रिद्धस्मीति प्राकृतेन सह 'रिद्धम्' इत्येव छायामुपकल्पयन् गङ्गाधरस्तु विच्छाय एव, रिद्धस्यानिपत्तेः । प्राकृते तु रन्धितस्य संभवेद्विद्धमिति ।
नीरसमपि स्नेहवशान्मनोनुकूलं भवतीति समीपोपस्थितं नायकं श्रावयितुं काचित्सखीं प्रत्यन्यापदेशेनाह -
सुहपुच्छिआइ हलिओ मुहपङ्कअसुरहिपवणणिव्वविअम् । तह पिइ अइकडुअं पि ओसहं जह ण पिट्ठाइ ॥ १७ ॥ [ सुखपृच्छिकाया हलिको मुखपङ्कजसुरभिपवन निर्वापितम् । तथा पिबति प्रकृतिकटुकमप्यौषधं यथा न तिष्ठति ॥ ] सुखपृच्छिकामुखाम्बुज सुरभिपवनशीतलीकृतं हलिकः । प्रकृतिकटुकमपि निपिबति तथौषधं तिष्ठति हि न यथा ॥ १७ ॥ प्रकृत्या स्वभावेनैव कटुकं तिकम् । औषधं तथा पिबति यथा न तिष्ठति, नावशिष्यत इत्यर्थः । अयमभिप्रायः – ज्वरार्तस्य नायकस्य सुखप्रश्नार्थमागतया नायिकया तत्समयप्रदेयमुष्णं क्वाथौषधं फूत्कारेण शीतलीकृतम् । स चानुरागानुप्राणितः कटुकमपि तन्निःशेषं पीतवानिति । हलिक इत्यनेन हालिकोपि तावदेवमनुरागरमणीयां दाक्षिण्यचर्यामनुरुणद्धि । भवांस्तु नागरिकत्वाभिमानीति किं पुनर्भवति विशेषवचनेनेति साकूतं ध्वन्यते । औषधमित्यनेन ममायमनुरागस्तव महान्तमपि मनोव्याधिमपनयेदतः किञ्चिद्वैर्येण नियमे स्थातव्यमित्यभिव्यज्यते । प्रकृतिकटुकमित्यनेन ' न मेऽनुरागस्तव हृदयावर्जकस्तथापि परिणामे सुखप्रद इत्यौषधरूपेणापि सोभ्युपगन्तव्यः' इति सूच्यते । "विरसमप्यनुरागात्सुरसं भवतीति कापि सखीमाह" इति गङ्गाधरावतरणम् ।
सा न समागता अहं तु निकुञ्जे चिरं स्थित्वा समागत इति वदन्तं नायकं पुनः संकेतस्थाने नेतुं नायिकायास्तत्र गमनं समागमोत्कण्ठां च दूती निपुणतयाभिव्यनक्तिअह सा तहिं तहिं व्विअ वाणीरवणम्मि चुक्कसंकेआ । तुह दंसणं विमग्ग पञ्भट्टणिहाणठाणं व ॥ १८ ॥ [ अथ सा तत्र तत्रैव वानीरवने विस्मृतसंकेता | तव दर्शनं विमार्गति प्रभ्रष्टनिधानस्थानमिव ॥ ] सा विस्मृतसंकेता वानीरवनेऽथ तत्र तत्रैव । तव दर्शनं विमार्गति विभ्रष्टनिधानदेशमिव ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org