________________
१६०
काव्यमाला । व्यज्यते । गृहे निषण्णामित्यनेन त्वद्गतचित्ततया न गृहजनसंकथावस्या मनो रमते, अत एव विजने गृहे निषीदतीति ग्लान्या प्रियानुरागातिशयो ध्वन्यते । दर्शयतीवेत्य. नेन 'नासौ खिन्ना मेघान्पश्यति परं साम्प्रतं त्रुटितगृहान्तरालान्मेघा इमां पश्यन्ति, इति दैन्यदूना सेयमचिरादुज्जीवनीया' इति ध्वन्यते । तथा चैवं गृहदारियदशायामपि त्वदनुरागवशात्केवलं त्वदनुध्यानमात्रावलम्बनामिमां त्वरितं संभावय, अन्यथा संप्रति मेधैरवेक्षिता सेयं नाधिककालमेवं तिष्ठेदिति त्वरितागमनं ध्वन्यते । गतपतिकामिति मूलपाठो न सुन्दर इति प्रोषितपतिकामिति प्रयुक्तम् ।
अनुरक्तायामपि कस्यांचन ग्राम्यवेषादिना मन्दादरं नायकं प्रवर्तयितुं दूती साकूतमन्यापदेशेनाह
भुञ्जसु जं साहीणं कुत्तो लोणं कुगामरिद्धम्मि । सुहअ सलोणेण वि किं तेण सिणेहो जाहिं णत्थि ॥१६॥ [भुक्ष्व यत्स्वाधीनं कुतो लवणं कुग्रामरिद्धे ।
सुभग सलवणेनापि किं तेन नेहो यत्र नास्ति ॥] भुङ्क यदायत्तं नो लवणं कुग्रामरन्धने तु कुतः।
सुभग सलवणेनापि च किं तेन हि यत्र न नेहः ॥ १६ ॥ यत् नः आयत्तम् अधीनं तद् भुख । रिद्धं रन्धनम् । सुलभलवणात्प्रदेशात्सुदूरवतितया कुत्सितस्यास्य ग्रामस्य रन्धने लवणं सामुद्रादि कुतः स्यात् । हे सुभग तेन सलवणेनापि किं यत्र स्नेहो घृतादिर्न स्यात् । सुभगेल्यनेन त्वं तादृशसौभाग्यशाल्यसि, यदृष्टमात्र एव त्वयि सेयं स्नेहानुबन्धमधिगतवतीति नैतस्याः स्नेहनिर्भरं मनो भन्दादरताप्रदर्शनेन कदर्थनीयमिति सौन्दर्यगर्वितं प्रत्यभिव्यज्यते । वाच्येनानेन वस्तुना 'कुग्रामे (यत्र समयेऽपेक्षितस्याभीष्टवस्तुनः कामं नोपलम्भ एतादृशे लघौ ग्रामे) यदृच्छयाऽऽगतस्य प्राघुणिकस्य यदि विवशतया यथामनोरथं परिचरणं न स्यात्तदा दक्षिणेनागन्तुकेनापि यदेतेषां स्वाधीनं (यद्धि मनोरागानिवेद्यते) नेदं यत्र कुत्रचि. सुलभमिति परिज्ञाय तत्वीकारेणैव संतोष्टव्यम् । लवणं हि अन्यान्यस्थलेषु सुलभम् , किञ्चिद्व्ययेनापि लब्धुं शक्यम् । स्नेहः (घृतादिकम् ) तु शुद्धो भूरिव्ययेनापि कदाचिदेवोपलभ्येत नागरिकैर्भवादृशैरिति स्नेह एव बहुमानदृशावलोकनीयो न तावदापातमञ्जुलं लवणम् । किं च लवणं यदि विशेषपरिमाणेन भुज्यते तर्हि त्वरितमेव वैरस्यमापादयति । स्नेहस्तु अधिकाधिकमपि व्यामिश्रित आसेव्यते तद्यपि न प्रकृतरसस्य भङ्गः, प्रत्युत शरीरस्येव तस्य भूयान्परिपोष एव । तथा च-लावण्यमात्रलोलुपतया नास्याः खाभाविकः स्नेहोवधीरणीय इति दूत्या कंचिन्नागरिकसादर्पशालिनं प्रति प्रतिबोध्यते । यत्वाधीनमित्यनेन सौन्दर्य नास्या अधीनं तद्धि दैवायत्तम् । यत्रास्याः स्ववशः स किल बहुत्र दुर्लभः स्नेहो भाग्यवशात्सुलभस्ते जात इति त्वत्सौन्दर्याग्रे निजस्य सौन्दर्यमकिञ्चिन्मन्वानतया विनयातिशयमाविष्कुर्वत्यां सुदत्यामस्यामवश्यं दयनीयमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org