________________
संस्कृतगाथासप्तशती ।
झञ्झावाउत्तणिए घरम्मि रोऊण णीसहणिसण्णम् । दावेइ व गअवइअं विज्जज्जोओ जलहराणम् ॥ १५ ॥ [ झन्झावातोत्तृणिते गृहे रुदित्वा निःसहनिषण्णाम् । दर्शयतीव गतपतिकां विद्युद्योतो जलधराणाम् ॥ ] झञ्झावातोत्तृणिते गृहे रुदित्वा हि निःसहनिषण्णाम् । दर्शयतीव घनानां प्रोषितपतिकां नु विद्युदुद्योतः ॥ १५ ॥
४ शतकम् ]
झञ्झावातेन वर्षावायुना उत्तृणिते तृणशून्यीकृते गृहे प्रियस्मरणोत्कण्ठ्या रुदित्वा निःसहं यथा स्यात्तथा निषण्णां प्रोषितपतिकां विद्युदुद्योतो घनानां घनान् प्रति दर्शयतीव । घनानामिति कर्मणः शेषत्वविवक्षया षष्ठी । भवतामुदयादियमेतामवस्थां तु प्राप्ता, किमिदानीमबलामधिकं क्लेशयथ, प्रत्युत पत्युरेतस्याः कुरुतोत्कण्ठां येन इमां दुर्दशामवाप्ता सेयं जीवितुं शक्नुयादित्याशयेन मेघान् प्रदर्शयतीति भावः । स्त्रीत्वान्मृदुहृदयतया विद्युतः प्रोषितपतिकां प्रति पक्षपातः, अत एव दयमाना विद्युत्प्रोषितपतिकाया उपरि दयाप्रकाशनार्थं तां मेघेभ्यो दर्शयतीत्याशयः । यथा मृच्छकटिकेप्युक्तम्‘यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः । अयि विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥' अथवा प्रियविरहवेदनया समधिकक्लिष्टामत एव दुःखाधिक्य - संभवभिया मेघदर्शनमसहित्वा गृहे निलीय निषण्णां प्रोषितपतिकां विद्युत्प्रकाशो मेघान् प्रति दर्शयति । स्त्रीत्वात्स्त्रीरहस्याभिज्ञा विद्युद् उपजापकारिणीव निजदयितान् मेघान् प्रति क्लेशनार्थं तां प्रकाशयतीति भावः । किंवा उत्कण्ठोच्छ्वसितहृदयतया मेघदर्शनात्पराजीय गृहे निलीनां प्रोषितपतिकां विद्युत्प्रकाशो घनानाम् ( घनान् कर्मभूतान् ) दर्शयतीव । विरहोद्दीपकान्मेघान्द्रष्टुमनिच्छन्तीमपि प्रोषितपतिकां विशीर्णगृहप्रविष्टो विद्युत्प्रकाशस्तान्मेघान्वलाद्दर्शयतीत्यर्थः । ' दृशेश्चेत्यनेन प्रयोज्यकर्तुः प्रोषितपतिकायाः कर्मत्वेन द्वितीया । मेघान् अपश्यन्तीमपि प्रयोज्यां प्रयोजको विद्युत्प्रकाशो बलात्पश्यन्तीं ज्ञात्वा प्रदर्शनकर्मणि प्रयोजयतीत्यहो वैयाकरणानामविषयो विषयः ! ! [ धातुवाच्यव्यापारस्य कर्तुरेव प्रयोज्यत्वमालम्ब्य प्रयोजककर्त्रा प्रेरणे कृते धातोर्णिच् वैयाकरणैरनुशिष्टः; न तु धातुवाच्यव्यापाराद्दूरं पलायमानस्य कर्तुर्बलात्कारेण प्रयोज्यत्वं संस्थाप्य णिजर्थ प्रेरणं क्रियते । अत्र हि प्रोषितपतिका दृशधातुवाच्यव्यापारादवलोकनाहूरं पलाय्य गृहे निलीना तथापि तां पश्यन्तीं प्रयोज्य बलात्कारप्रयोजकेन विद्युत्प्रकाशेन बलादेव णिजर्थं प्रेरणं कृत्वा दर्शयतीति प्रसेधितमेवेति विलोक्यतामाश्चर्यम् !! ] तथा च त्वद्विरहवेदनया क्लिष्टायां तस्यां वर्षाकालिको मेघाडम्बरो वलादल्याचरतीति ध्वन्यते । वातेनैव तृणानामुडयनेन गलितमुञ्जबन्धनस्य च्छदिषो गृहस्वामिकर्तृकं बहु कालादप्रत्यवेक्षणं सूच्यते । तथा च बहोः कालात्ते विरहवेदनामेषा विसोढवतीति व्यज्यते । निःसहमित्यनेन त्वदनुध्यानेन उत्कण्ठितहृदयतया यावद्वलं सा रोदिति, विरहकृशतया तत्राप्यसमर्थत्वे तु निःसहतया निषीदति' इति विरहदौर्बल्यातिशयो
Jain Education International
१५९
For Private & Personal Use Only
www.jainelibrary.org