SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १५८ काव्यमाला। हे कृशोदरि पृष्टगृहे पश्चाद्भागवर्तिगृहे योऽकोटवृक्षस्तत्पत्रश्चित्रितं पृष्टभागं प्रोञ्छ मार्जय । अयि सरले ! ऋजुतयाऽमिसरणप्रच्छादनानभिज्ञे! एवं सति अतिविदग्धाभिर्देवरजायाभिर्मा ज्ञास्यते । पृष्ठप्रोञ्छनाभावे तु विदग्धाभिस्ताभिर्निजदयिताभिसारिणीति त्वं लक्षयिष्यस इति भावः । तथा च-अक्षोटतरुतले देवरेण सह त्वं सांप्रतमेव संगतवतीयहं जाने । नेदमधुना त्वयापलपितुं शक्यम् , उत्तानसंवेशनेन रममाणायास्तव पृष्ठस्य तत्पवैश्चित्रितत्वादिति सपत्नी प्रत्यभिव्यज्यते । देवरजायाभिरित्यनेन 'देवरपन्योपि दयिताभिसारेjया त्वदन्वेषणपराः सन्ति, ततो नाहमेवैतदभिज्ञा ता अपि सन्तीति' ध्वन्यते । अवसरालाभान्निरास्तरण एव तरुतले त्वया रतं ततोपि ऋजुतया त्वं तद्गोपयितुं नाशक इति ऋजुके इत्यामन्त्रणेन द्योत्यते । अतिविदग्धा अपि देवरजायास्त्वया तद्दयितवशीकरणेन सम्यक् विजिता इत्युपालम्भगर्भाऽसूयापि ऋजुके इत्यामन्त्रणेन ध्वन्यते । कृशोदरीत्यामन्त्रणेन तु कृशमध्यायास्तवोत्तानबन्ध एव सुखावहोभूदिति स्वस्य बन्धचातुर्यमभिव्यज्यते । 'पडोहर' शब्दः पश्चाद्गृहवाचको देशी । 'अक्षोटकन्दरालौ द्वावकोटे तु' इत्यमरः । कृतापराधे दयिते मानावलम्बनेन क्षणमात्मगौरवं स्थापनीयमिति शिक्षयन्ती सखीमात्मनोनुरागातिशयात्तत्राक्षमता काचिदाह---- अच्छीइँ ता थइस्सं दोहिँ वि हत्थेहि वि तस्सि दिखे। अङ्गं कलम्बकुसुमं व पुलइअं कह णु ढकिस्सम् ॥ १४ ॥ [अक्षिणी तावत्स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन्दृष्टे । ___ अङ्गं कदम्बकुसुममिव पुलकितं कथं नु च्छादयिष्यामि ॥] स्थगयिष्यामि कराभ्यां नयने तस्मिन्विलोकिते द्वाभ्याम् । अपिधास्यामि कथं मम पुलकितमङ्गं कदम्बकुसुममिव ॥१४॥ तस्सिन्दृष्टे सति द्वाभ्यां कराभ्यां नयने स्थगयिष्यामि आच्छादयिष्यामि, परं तद्दशनेन पुलकितं रोमाञ्चयुक्तमत एव कदम्बकुसुममिव स्थितं ममाझं कथम् अपिधास्यामि आच्छादयिष्यामि । सर्वाङ्गव्यापित्वात्पुलकं गोपयितुमशक्यमिति भावः । स्थगयिष्यामीत्यनेन 'यत्किल मत्प्रयत्नेन साध्यं तदधीनं मम, यत्तु मम हृदयाधीनं तत्राहमवशा, हृदयस्य प्रियतमवशीभूतत्वात्' इत्यभिव्यज्यते । कदम्बकुसुममिवेत्युपमया कदम्बकुसुमे यथा केसराः स्वभावतो भवन्ति तथा प्रियतमस्यावलोकनमात्रेण ममापि खतो रोमाचोद्गमो भवतीति प्रियं प्रति निसर्गतोऽनुरागो द्योत्यते । तथा च प्रियतमे एवमनुरक्ताया मम शारीरिकविकारगोपनमेव तस्मिन्नवसरे दुष्करं किं पुनमोनावलम्बनमिति सखी प्रति ध्वन्यते। नायकसमीपगामिनं पान्यं प्रति सखीजनो नायिकाया अवस्थां गृहस्यापि च दुर्दशां सूचयन् तस्य त्वरितागमनार्थ संदिशति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy