________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
१५७
रणीयमेव । स्वयंप्रदर्शितेन गमनानुमतियाचनप्रकरणेन किंशुकार्थे पलाशपदस्याभिधाया नियन्त्रणेन राक्षसरूपार्थस्य व्यञ्जनां विनानुपपत्तेः । युगपद्यत्र द्वयोरर्थयोस्तात्पर्यावगमस्तत्रैव श्लेष इति स्पष्टं प्रतिभावताम् । न च भयदायकराक्षसार्थोपि सहैव प्रतीयत इति वाच्यम् | यात्राने राक्षसार्थस्य असंबद्धत्वात् । किं च पलाशपदेन किंशुकरूपमर्थमवगत्य ततो विरहिणीजनघस्मरतया पलाशेषु ( किंशुकेषु ) पलाशता राक्षसता आरोप्यते । आलम्बनं विना राक्षसत्वरूपस्यारोपस्यानुपपत्तेः । अत एव पूर्वं पलाशपदस्य किंशुकरूपार्थ एव शक्तिः, अनन्तरं च राक्षसरूपार्थप्रतीतिः । सा च कांचिद्वृत्ति विना दुरुपपादा, वृत्तिं विना शब्दादर्थबोधस्वीकारेऽतिप्रसङ्गात् । लक्षणा तु मुख्यार्थ - वाधाद्यभावान्न, ततस्तु व्यञ्जनाऽत्रावश्यं स्वीकार्या । सा चेयं पलाशादिपदानां परिवृत्त्यमहत्वाच्छाब्दीति कृतं प्रसक्तानुप्रसक्तेन ।
दयितं प्रति नायिकायाः प्रणयातिशयं सखी सखीमाह - घेत्तूण चुण्णमुट्ठि हरिससिआऍ वेपमाणाए । भिसिणेमित्ति पिअअमं हत्थे गन्धोदअं जाअम् ॥ १२ ॥ [ गृहीत्वा चूर्णमुष्टिं हर्षोत्सुकिताया वेपमानायाः । अवकिरामीति प्रियतमं हस्ते गन्धोदकं जातम् ॥ ] आदाय चूर्णमुष्टिं हर्षोत्सुक्येन वेपमानायाः । प्रियमकरामि पुर इति हस्ते गन्धोदकं जातम् ॥ १२ ॥ पुरः प्रियतममवाकिरामि विच्छुरयामीति चूर्णमुष्टिं मुष्टौ कर्पूरादिगन्धद्रव्य कृतवर्णधूलिमादाय हर्षजनितेनौत्सुक्येन वेपमानाया नायिकाया हस्ते गन्धोदकं जातम् । प्रियतमदर्शनजनितसात्त्विकभावात्मकस्वेदेन चूर्णमुष्टिरेव गन्धोदकं जातमिति भावः । कान्तावलोकनमात्रेण तस्या एतावान् भावोदय इति नायकं प्रत्यनुरागातिशयो व्यज्यते । औत्सुक्येनेत्यनेन प्रियतमदर्शनोत्तरं तदुपरि वर्णमुष्टिप्रक्षेपकाल विलम्बाऽसहनत्वं सूच्यते । तथा च चूर्णमुष्टिग्रहणोत्तरं कदा प्रियं विच्छुरयामीत्युत्कण्ठया खेदोद्गमरूपोऽनुभावोभिव्यञ्जितः । उक्तं हि सरस्वतीकण्ठाभरणे - 'औत्सुक्यं वाञ्छितप्राप्तौ कालक्षेपासहिष्णुता । चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत् ॥' 'भिसिणेमि इति विच्छुरणार्थे देशी ।
देवराभिसारस्ते मया ज्ञात इति सूचयन्ती सपत्नी सपत्नीमाह
पु िससु किसोअर पडोहरङ्कोल्लपत्तचित्तलिअम् । छेआहिँ दिअरजा आहिँ उज्जुए मा कलिज्जिहिसि ॥ १३ ॥ [ पृष्ठं प्रोन्छ कृशोदरि पश्चागृहाङ्कोटपत्रचित्रितम् । विदग्धाभिर्देवरजायाभि ऋजुके मा कलिष्यसे ॥ ] पृष्ठ प्रोज्छ कृशोदरि पृष्ठगृहाङ्कोटपत्रचित्रयुतम् । मा ज्ञास्यसेऽतिजुके देवरजायाभिरतिविदग्धाभिः ॥ १३ ॥
सं. गा. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org