________________
१५६
काव्यामाला। हियते वशीक्रियते । गुणकर्तृकहरणस्यानुपपत्त्या अभिमुखीकरणं लक्ष्यम् । तेन च वशीकरणं व्यङ्ग्यम् । गुणेन जनो न वशीक्रियते किं तु यो जनो येन भावितः प्रणयक्शादनुध्यातस्तेन अर्थात् प्रेमभाजनेन जनेन वशी क्रियते। यस्य यत्र प्रेम भवति तत्र गुणाभावेपि सोऽनुरज्यतीति भावः। मौकिकेषु महामूल्यबहुमानं त्यक्त्वा खाभाविकप्रेमवशात्पुलिन्दा गुजाखनुरज्यन्तीत्याशयः । मुक्तागुतादृष्टान्तेन ‘परमादरणीयां मत्ससी विहाय अन्यस्यामनुरक्तस्य तस्य वनेचरवन्न गुणपरिचयवैदग्ध्यम्' इति ध्वन्यते । 'निजभर्तुरेव न सा वल्लभा तत्कथं तस्या गुणानस्तोषीरित्यभियोज्येनोक्ता दूती तमाह' इति गङ्गाधरः।
गमनानुमतिं याचते मे किमिति किमप्युत्तरं न ददासीति प्रियतमेनोक्ताया नायिकायाः संबन्धिनी काचिदृद्धा तमाह
लङ्कालआण पुत्तअ वसन्तमासेकलद्धपसराणम् । आपीअलोहिआणं वीहेइ जणो पलासाणम् ॥ ११ ॥ [लङ्कालयानां पुत्रक वसन्तमासैकलब्धप्रसराणाम् ।
आपीतलोहितानां बिभेति जनः पलाशानाम् ॥] लङ्कानिलयानां सुत वसन्तमासैकलब्धविभवानाम् ।
1 [वसान्त्रमांसैकलब्धविभवानाम्] । आपीतलोहितानां बिभेति लोकः पलाशानाम् ॥ ११ ॥ हे पुत्र लङ्का शाखा स्थानं येषां तेषाम् । वसन्तमासे प्राप्तात्यन्तप्रसराणाम् । आ ईषत्पीतवर्णानि च लोहितानि च तेषाम् । पलाशानां किंशुकपुष्पाणां लोकः प्रियविरहवेदनाकातरो वधूजनो बिभेति । पलाशकुसुमैर्विरहिजनदुरन्तं वसन्तमालक्ष्य प्रवासविषये सेयमुत्तरं न प्रतिपद्यत इति भावः । पलाशानामिति शेषत्वविवक्षायां पञ्चम्यर्थे षष्ठी । अत्र यात्रानुमतियाचनरूपप्रकरणेन पलाशादिपदानां किंशुकादिष्वर्थेषु वक्तृतात्पर्यावगमात् शक्तेर्नियमने सति पूर्वोक्तार्थसंपत्तावपि 'लङ्कालआणम्' 'वसन्तमासेकलद्धपसराणम्' इत्यादिषु पलाशादिशब्दैरनुरणनव्यङ्ग्यविधया-लङ्कापुरीवासिनाम्, वसा अन्त्राणि मांसं च एभिः प्राप्तात्यन्तप्रसराणां समन्तात्पीतरुधिराणां पलाशानाम् (पलं मासमश्नन्ति तेषाम् ) राक्षसानां लोको बिभेतीत्यर्थों ध्वन्यते । तथा च पलाशकुसुमैः सह एकपदोपस्थितिवशाद्राक्षसरूपस्यार्थस्योपमानोपमेयभावप्रतीत्या शब्दशक्तिमूल उपमालंकारध्वनिः । एवं च विरहिणीजनघस्मराणि किंशुककुसुमानि राक्षसानिव वीक्षमाणा सेयं भवत्प्रवासानुमतौ नोत्तरं ददातीति नायकं प्रति चरममभिव्यज्यते । 'जनः' इति सामान्यनिर्देशेन 'यः किल मानुषः स तु पलाशेभ्यो बिभेति परं भवानस्मिन्नपि समये प्रवासमभ्युपगच्छन् न जाने एभ्यो बिभेति न वा, हन्त भवतः कीदृशी क्रूरहृदयता' इत्युपालम्भोपि ध्वन्यते । 'लङ्का रक्षःपुरी शाखाशाकिनीकुलटासु च' इति मेदिनी । अत्र 'राक्षसेभ्यो जनो बिमेतीति श्लेषः' इति गङ्गाधरव्याख्यानं तु विचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org