________________
४ शतकम् ] संस्कृतगाथासप्तशती।
१५५ अरुणवर्णैरत एव शुकमुखसदृशैः । मध्ये आसीनस्य बुद्धदेवस्य चरणवन्दनार्थं पर्यन्ततो दण्डवत्पतितैर्भिक्षुसंधैरिव । लोहितानि कुसुमपत्राणि वस्त्रस्थानीयानि तद्वन्तञ्च शिरःस्थानीयमिति प्रणतभिक्षुसादृश्यं बोध्यम् । तथा च विरहिजनदुरन्तोयं वसन्तः समागतस्ततोपि हन्त गन्तुमभिलष्यसीति स्मारणं व्यङ्ग्यम् । कठिनहृदयतया ततोपि चेन्न निरुध्यसे अथापि यात्रासमयेऽपशकुनानि त्ववश्यं परिहेयानीत्यपशकुनार्थ भिक्षुसं. घातस्मारणाकूतम् । उक्तं हि वसन्तराजशकुने
'वमद्विकेशो हतमानगर्वः क्षिण्णाङ्गनमान्त्यजतैलदिग्धाः। रजस्खला गर्भवती रुदन्ती मलान्वितोन्मत्तजराधवाश्च ॥ दीनो द्विषत्कृष्णविमुक्तकेशाः क्रमेलकस्थाः खरसैरिभस्थाः।
संन्यासिसांक्रन्दनपुंसकाद्या दुःखावहाः सर्वसमीहितेषु ॥' किञ्च पतितैरिति पदमप्यपशकुनमेव । उक्तं हि तत्रैव___ 'स्थैर्य स्थिरार्थाद् गमनं तदर्थाद्वाक्यान्निवृत्तिर्विनिवर्तितार्थात् ।
लाभं जयं भङ्गममङ्गलं वा वुध्येत तत्तत्प्रतिपादनार्थात् ॥' मानिनीमनुनेतुं प्रियतमः सदाक्षिण्यमाह
जं जं पिहुलं अङ्गं तं तं जाअं किसोअरि किसं ते । जं जं तणुअं तं तं पि णिहि किं त्थ माणेण ॥९॥
[यद्यत्पृथुलमङ्गं तत्तज्जातं कृशोदरि कृशं ते । ___ यद्यत्तनुकं तत्तदपि निष्ठितं किमत्र मानेन ॥] अङ्गं यद्यत्पृथुलं तत्तज्जातं कृशोदरि कृशं ते।
यद्यत्तनु तत्तदपि च तनुतरमभवकिमत्र मानेन ॥९॥ मानजेन मन्युदुःखेन तव सेयं दशा, ततश्चैवंविधक्लेशकरं मानं मुञ्चेति भावः । मानसामयिकेन वियोगदुःखेन तनोस्तनुतरतावर्णनादतिशयोक्तिः । अनया च-तवेव ममापि समधिकवेदनावहं मानमिदानीमवमुञ्चेति धन्यते । गाथायामस्यां 'णिट्ठिअम्' इत्यस्य संस्कृतपदशय्यानुरोधेन तनुतरमित्युपनिबन्धः । मूलपदाङ्कानुसरणे तु 'यद्यत्तनु तत्तदपि च निष्ठितमिह किं नु मानेन' इति पाट्यम् । निष्ठितं निष्टां प्रकर्ष गतम् । अतिदुर्बलं जातमित्यर्थः । “अनुनयं ग्राहयितुं सखी मानवतीमाह" इति गङ्गाधरावतरणम् । गुणवतीं तां विहाय कथमयमन्यस्यामनुरक्त इति सख्यानुयुक्ता नायिकासखी तामाह
ण गुणेण हीरइ जणो हीरइ जो जेण भाविओ तेण । मोत्तूण पुलिन्दा मोत्तिआइँ गुञ्जाऔं गेहन्ति ॥ १० ॥ [न गुणेन ह्रियते जनो ढियते यो येन भावितस्तेन ।
मुक्त्वा पुलिन्दा मौक्तिकानि गुना गृह्णन्ति ॥] . वियते गुणेन न जनो हियते यो येन भावितस्तेन । .. मुक्ताफलानि मुक्त्वा गुजा गृहन्ति किल पुलिन्दगणाः ॥ १०॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org