SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यमाला । . - अपराधे सिद्ध सति विलक्षः प्रियो मामनुनयेदिति प्रियसकाशादनुनयसुख काङ्क्षन्त्या अत एव प्रियेण अकृतमप्यपराधं कृतं कुर्वत्या साधयन्त्या मया । सरलखभावोपि प्रियो बलादविनयमार्ग नीत इति कष्टम् । अव्वो इति कष्टमित्यर्थे देशी । कष्टम विनयमार्ग नीत इति मतिप्राबल्येन कोपभावस्य शान्तिः । भर्नादिपदमनुच्चार्य दयितपद. प्रयोगेण वल्लभं प्रति तत्प्रणयादिस्मरणेनोत्कण्ठाख्यभावस्योदयश्च व्यज्यत इति भावसन्धिः । 'काङ्किण्या' इति संस्कृते दुःश्रवं स्यादिति 'लोलुपया' इति परिवर्तितं छायायाम्। ये तु केवलं मूलपदाङ्कानुसारिणस्तेषां कृते 'अनुनयसुखकाङ्किण्या' इति पाठः । "करोतिरत्रोच्चारणे । अकृतमप्यपराधं कृतमिति समुच्चारयन्त्येत्यर्थः।" इति गङ्गाधरः। किश्च जातानुतापा कलहान्तरितेत्यपि गङ्गाधरोक्तं व्यर्थमेव, अनुतापे सत्येव कलहान्तरितात्वव्यपदेशसिद्धः । “चाटुकारमपि प्राणनाथं कोपादपास्य या । पश्चात् तापमवाप्नोति कलहान्तरिता तु सा ॥” इति सरस्वतीकण्ठाभरणम् । - प्रोषितपतिकाया विरहवेदनां मुग्धतां च संसूच्य तत्कान्तस्यागमनत्वरार्थ तत्सखी तत्समीपगामिनं पान्थमाह हत्थेसु अ पाएसु अ अङ्गुलिगणणाइ अइगआ दिअहा । एण्हि उण केण गणिजउ त्ति भणिऊ रुअइ मुद्धा ॥७॥ [हस्तयोश्च पादयोश्चाङ्गुलिगणनयातिगता दिवसाः। इदानीं पुनः केन गण्यतामिति भणित्वा रोदिति मुग्धा ॥1 करयोः पदयोश्चाङ्गुलिसंगणनेनेह यापिता दिवसाः। कथमधुना गण्यन्तामित्युक्त्वा रोदिति हि मुग्धा ॥७॥ हस्तयोः पादयोश्चाङ्गुलिगणनया दिवसा व्यतीताः । इदानीमङ्गुलिसंख्यामतिक्रम्य व्यतीतानि दिनानि केन गण्यन्तामित्युक्त्वा मुग्धा रोदिति । एतावत्कालमङ्गुलिगणनाव्यापारेण अद्य श्व इत्याशामवलम्ब्य दिवसा यापिता इत्युत्कण्ठातिशयो व्यज्यते । तथा च गणनासाधनानुपलम्मेन निर्विनोदा सेयं नाधुना कालविलम्ब सहेतेति त्वरातिशयो ध्वन्यते । मुग्धेत्यनेन मुग्धतया नेयं गणनायाः साधनान्तरं जानीयात, तथा चैवंविधापि सेयं निघृणेन त्वया समधिकं पीड्यत इत्युपालम्भो व्यज्यते। प्रवासोद्यतस्य नायकस्य गमनप्रतिरोधार्थ काचिदुन्मादकं वसन्तं सहैव यात्राप्रति. रोधकमपशकुनं च स्मारयति कीरमुहसच्छहेहिं रेहइ वसुहा पलासकुसुमेहिं । बुद्धस्स चलणवन्दणपडिएहिँ व भिक्खुसंधेहिं ॥ ८॥ [ कीरमुखसदृ: राजते वसुधा पलाशसुकुमैः । बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसंधैः ॥] शुकमुखसच्छायैः किल पलाशकुसुमैर्विराजते वसुधा । बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसंघातैः॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy