SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ४ शतकम् ] संस्कृतगाथासप्तशती। १५३ करणेन नाहमात्मवर्शवदेति ध्वन्यते । वल्ली निजखभावेन स्तब्धेपि वृक्षे अङ्गं वलयति वेष्टयति, अनेन दृष्टान्तेन प्रियः काममस्तु खैरचेष्टितोऽहं तु तस्मै आत्मसमर्पणं कृतवतीत्यात्मनोनुरागातिशयो ध्वन्यते। किञ्च मत्कृतच्छायायां निजनिसर्गेणेति पृथक्पदस्थापनेन वृक्षस्य स्तब्धत्वं यथा निजखभावस्तथा लताया अपि वृक्षवेष्टनं निजः खभाव इति 'स्तब्धेपि वृक्षे वल्ली निजनिसर्गेणाङ्गं वलयति' इत्यर्थसंपत्त्या स्त्रियाः पतिच्छन्दानुवर्तनं खभाव एवेति दयितानुवृत्तिदाक्षिण्यं ध्वन्यते । पूर्वार्द्ध नाहमात्मवशगेत्यर्थान्तरगर्भिताया लोकोक्तेरनुकरणाच्छेकोक्तिरलंकारः 'छकोक्तिर्यदि लोकोक्तिः स्यादन्तरगर्भिता'। तथा च-प्रेमवशंवदा नाहमात्मनोपि प्रभवामि किं पुनर्दयिते मानममुष्ठातुमिति नायिकया सखी प्रत्यभिव्यज्यते । 'यद्वा निराश्रयतया स्थातुमशक्ता लता यथा स्तब्धं वृक्षमाश्रित्य तिष्ठति तथाहमपि नटप्रायमननुरक्तमधममप्याश्रित्य तिष्ठामि यावदुत्तमं कमप्यासादयामीति दूतीं प्रति कुलटायाः कस्याश्चिदियमुक्तिः' इति गङ्गाधरटीका । महता प्रयत्नेन प्राप्तस्य दयितस्य हृदयेच्छानुवर्तनवैमुख्यं सूचयन्ती नायिका स्वसखीमाह दुक्खेहिँ लम्भइ पिओ लद्धो दुक्खेहिँ होइ साहीणो । लद्धो वि अलद्धो विअ जइ जह हिअ तह ण होइ॥५॥ [दुःखैर्लभ्यते प्रियो लब्धो दुःखैर्भवति स्वाधीनः। लब्धोऽप्यलब्ध एव यदि यथा हृदयं तथा न भवति ॥] दयितो दुःखैराप्यत आप्तो दुःखैर्हि भवति चाधीनः । आप्तोप्यनाप्त एव तु न हि यदि हृदयानुकूलः स्यात् ॥५॥ स्वामी भर्ता वा सुखं प्राप्यः परं यः किल हृदयाभीप्सितः प्रियः स हि दुःखैर्लभ्यत इति दयितपदस्याकूतम् । यदि प्रियो लब्धस्तयपि सौन्दर्यगुणाद्यभिमानेन दयिताया वशीभूतो न भवति प्रत्युत तामेवाभिभूय स्वयं खैरचारी स्यादेवं च महता कष्टेन पुनः खाधीनो भवतीति भावः। यदि तु हृदयानुकूलो न भवति तर्हि लब्धोऽप्यलब्ध एव । 'महताऽऽयासेन प्राप्तोपि न मे हृदयानुवर्तनं करोति' इति नायिकया सनिर्वेदमात्माभि• प्रायो व्यज्यते । प्रियं प्रति सोत्कण्ठा कलहान्तरिता प्रियसखीमाह अव्वो अणुणअसुहकङ्किरीअ अकअंकअं कुणन्तीए । सरलसहावो वि पिओ अविणअमग्गं बलण्णीओ ॥६॥ [कष्टमनुनयसुखकाङ्क्षणशीलयाकृतं कृतं कुर्वत्या । सरलस्वभावोऽपि प्रियोऽविनयमार्ग बलामीतः ॥] अनुनयसुखलोलुपया कष्टमकृतमपि कृतं प्रकुर्वत्या । दयितः सरलनिसर्गोप्यविनयमार्ग बलानीतः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy