________________
१५२
काव्यमाला।
अविषयेपि मानिनीमिमामनुनेतुं प्रियतमो दर्शितादर इति कियदस्याः सौभाग्य मिति चरमं ध्वन्यते। कस्याश्चन सौन्दर्यातिशयवर्णनेन नायकमधिकाधिकमुत्साहयन्ती दूत्याह
एदहमेत्तम्मि जए सुन्दरमहिलासहस्सभरिए वि। अणुहरइ णवर तिस्सा वामद्धं दाहिणद्धस्स ॥३॥ .. [एतावन्मात्रे जगति सुन्दरमहिलासहस्रभृतेऽपि ।
अनुहरति केवलं तस्या वामाधं दक्षिणार्धस्य ॥] एतावति भुवनेस्मिन्सुन्दरमहिलासहरभरितेपि ।
केवलमनुहरतेस्या वामार्द्ध दक्षिणार्द्धस्य ॥ ३ ॥ केवलम् अस्या वामार्द्ध दक्षिणार्द्धस्यानुहरते । वामार्द्धभागस्य सादृश्यवाहि दक्षिणार्द्धमेव, नान्या काचन सुन्दरी अस्या अनुहारिणीति भावः । महिलासहस्रभरिते इत्यनेन बयः सुन्दर्यो भरिताः सन्ति, ततश्चान्यसुन्दरीः प्रति सौलभ्यकृतोऽनादरो ध्वन्यते । तस्याः शरीरार्द्ध तस्याः शरीरार्द्धन सममित्यनन्वयालंकारेण साऽद्वितीया सुन्दरी सांप्रतमस्मिल्लोके इति दूत्याभिव्यज्यते । किञ्च वामार्द्ध दक्षिणार्द्धस्यानुहरते इत्यनेन यथा तस्या वामार्द्ध सर्वप्रकारेण सुन्दरं तथा दक्षिणार्द्धमपीति सर्वाझं तस्याः सौन्दर्यप्रसवि न त्वन्यासामिव कस्मिन्कस्मिन्नङ्ग इव काचित्रुटिरीक्ष्यत इत्यपि ध्वन्यते । तथा चैवंविधामसामान्यसुन्दरीमुपलब्धुं त्वरितमाचेष्टनीयमिति नायकप्रोत्साहनं द्योत्यते । __कृतापराधमपि दयितं मानावलम्बनेन किमिति नावरुणत्सि, किमेतावदायत्तासीति शिक्षयन्तीं सखीं काचिदात्मनोऽनुरागमाह--
जह जह वाएइ पिओ तह तह णञ्चामि चञ्चले पेम्मे । वल्ली वलेइ अङ्गं सहावथः वि रुक्खम्मि ॥४॥ [यथा यथा वादयति प्रियस्तथा तथा नृत्यामि चञ्चले प्रेम्णि ।
वल्ली वलयत्यङ्गं स्वभावस्तब्धेऽपि वृक्षे ॥] रणयति दयितो हि यथा तथा प्रनृत्यामि चञ्चले प्रेम्णि ।
वल्ली वलयत्यङ्गं वृक्षे स्तब्धेपि निजनिसर्गेण ॥ ४॥ प्रियतमो यथा यथा वाचं वादयति तथा तथाहं चञ्चले प्रेम्णि नृत्यामि । नर्तको यथा वादकस्य वाद्यलयानुसारमेव पदनिक्षेपं कर्तुं शकुयात्तथाहमपि प्रियस्याभिप्रायानुसारमेव प्रेमवशंवदा समाचरामीति प्रियानुवर्तनं ध्वन्यते । किश्च नर्तकवादकयोर्लयस्य संवाद एव यथा संगीतकसौष्ठवं भवति तथैव दम्पत्योरभिप्रायसाम्ये एव प्रणयगार्हस्थ्य शोभत इति गृहच्छन्दानुरोधेन मिथोनुवर्तनमपि गाथाकारेण सूच्यते । 'नृत्यामि चञ्चले प्रेम्णि' इत्यनेन चाञ्चल्यकर प्रेम आत्मच्छन्देन मां नर्तयतीति लोकोक्त्यनु१'नांच नचांना'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org