SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चतुर्थ शतकम् । अविदग्धं भर्तारमासाद्य कुलटा नानाविधैश्छद्ममिर्जारनिह्नवं कुर्वत इति शिक्षार्थ नागरिक आह अह अम्ह आअदो अज्ज कुलहराओ ति छेञ्छई जारम् । सहसागअस्स तुरिअं पइणो कण्ठं मिलावेइ ॥१॥ [असावस्माकमागतोऽद्य कुलगृहादित्यसती जारम्। सहसागतस्य त्वरितं पत्युः कण्ठे लगयति ॥] अयमागतोद्य नः किल कुलगेहादिति हि जारमसती स्वम् । सहसाऽऽगतस्य पत्युस्त्वरितं कण्ठे नियोजयति ॥१॥ असती 'अयमद्य नः कुलगेहात्पितृगृहादागतः' इति स्वमुपपतिम् । जारागमनोत्तरमेव सहसा अतर्कितमागतस्य पत्युः कण्ठे तूर्ण नियोजयति संयोजयति लगयतीति यावत् । पत्युरित्युक्त्या केवलं पालनकतैव स न तु हृदयदयित इति सूच्यते । नः इति बहुत्वोक्त्या 'केवलं ममैव परिचितो न किन्तु अस्माकं पितृकौटुम्बिकानां सर्वेषामेवायं परिज्ञातः' इति प्रथितपरिचयो द्योत्यते । कण्ठे योजनेन निकटसंबन्धीति प्रतीत्या शङ्कानवसरात्खरहस्यप्रच्छादनमित्याकूतं व्यज्यते। त्वरितमित्यनेन विचाराऽनवसरप्रदानान्निःसंदेहतया खस्य सत्यत्वं व्यज्यते । एवंविधाभिरसतीचेष्टाभिन व्यामोग्धव्यमिति सहचरं प्रत्यभिव्यज्यते । 'छेञ्छई' इत्यसतीवाचको देशी। खाधीनोस्याः प्रियतम इति नायिकायाः सौभाग्यं ख्यापयन्ती सखी सखीः प्रत्याह पुसिआ अण्णाहरणेन्दणीलकिरणाहआ ससिमऊहा। माणिणिवअणम्मि सकजलंसुसङ्काइ दइएण ॥२॥ . [प्रोन्छिताः कर्णाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः। . मानिनीवदने सकजलाश्रुशङ्कया दयितेन ॥] मृष्टाः कर्णाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः। दयितेनाञ्जनमलिनाश्रुशङ्कया मानिनीवदने ॥२॥ मानिनीवदने कर्णाभरणस्थस्य इन्द्रनीलमणेः. किरणैराहताः संभिन्नाः शशिकिरणाः अञ्जनमलिनस्य कजलमिश्रस्य अश्रुणः शङ्कया दयितेन मृष्टाः प्रोञ्छिताः । आहतपदेन इन्द्रनीलकिरणानां गाढत्वं द्योत्यते, अतएव तत्संभेदेन शशिकिरणानामपि नीलवर्णतासंपत्तिः । चन्द्रमयूखप्रतिफलनेन नायिकाकपोलयोः खच्छतातिशयो व्यज्यते । दयितपदेन सोपि तस्याः परमयानिति सूच्यते, ततश्च द्वयोरेव मिथो गाढप्रणयो ध्वन्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy