________________
१५०
काव्यमाला।
तापपरिश्रमावपनयतीति भावः । वयःकौशलाभ्यां संपूर्णतया प्रगल्भा सेयं नायिकेति स० कण्ठाभरणम् । 'भुजङ्गप्रलोभनाय दूती नायिकायाः सुरतावसानोपचारचातुर्यमाह' इति गङ्गाधरावतरणम् । कलितकौमुद्यां केलिरसिकः कश्चन कोविदः कान्तायाः कपोलकान्ति कीर्तयति
अह सरसदन्तमण्डलकवोलपडिमागओ मअच्छीए । अन्तो सिन्दुरिअसङ्खवत्तकरणिं वहइ चन्दो ॥ १० ॥ [असौ सरसदन्तमण्डलकपोलप्रतिमागतो मृगाक्ष्याः।
अन्तः सिन्दूरितशङ्खपात्रसादृश्यं वहति चन्द्रः॥] सरसदशनमण्डलयुतकपोलबिम्बागतोयमेणाक्ष्याः।
अन्तर्दरसिन्दूरितशङ्खसुभाजनतुलां वहति चन्द्रः ॥१००॥ मृगाक्ष्याः सरसदशनमण्डलेन मण्डलाकारेण सरसदन्तक्षतेन मणिमालानामकेन युतो यः कपोलस्तत्र बिम्बेन प्रतिबिम्बद्वारा आगतः अयं चन्द्रः, अन्तः मध्ये ईषत्सिन्दूरयुक्तस्य शङ्खभाजनस्य तुलां सादृश्यं वहति । मृगाक्ष्याः रक्तवर्ण-कान्तदन्तक्षतयुक्ते स्वच्छकपोले प्रतिफलितो गोलाकारश्चन्द्रबिम्बो मध्ये सिन्दूरयुक्तस्य शङ्खनिर्मितपात्रस्य सादृश्यं वहतीत्यर्थः । शुभकान्तित्वाचन्द्रबिम्बस्य शङ्खपात्रसादृश्यम् । दन्तक्षतमण्डलस्यारक्तत्वात्सिन्दूरसाम्यं बोध्यम् । मणिमालालक्षणं तु-'दन्तौष्टसंयोगाभ्यासनिप्पादनात्प्रवालमणिसिद्धिः' । 'सर्वस्येयं मणिमालायाश्च' इति सूत्रयोर्वात्स्यायनेनोक्तम् । ['उच्छूनकं प्रवालमणिश्च कपोले' इति पूर्वसूत्रानुसारं कपोले उत्तरदन्ताधरोष्टाभ्यां स्थानस्य गृहीत्वा पीडनं तदभ्यासः (पुनः पुनः करणम् ) प्रवालमणिसंपादकम् , मालाकारश्चन्मणिमाला] । एतद्गाथाव्याख्याने 'कपोलयोरिति द्विवचनम् , कपोलयोरेव च शङ्खपात्रसादृश्यं गङ्गाधरेणोक्तमनन्वयि । शङ्खपात्रसादृश्यं वहति चन्द्र इति स्पष्टमेककपोलमुद्दिश्यैव मूले प्रोक्तत्वात् । किञ्च चन्द्रमण्डलाभिमुखकपोलायाः कान्ताया एकस्मिन्नेव कपोले चन्द्रप्रतिबिम्बः प्रतिफलेनोभयोः, अत एव 'कपोलयोः प्रतिमागतः संक्रान्तप्रतिबिम्बश्चन्द्रः' इत्यादि व्याख्यानं विचारणीयमेव । शतकमुपसंहरति
रसिअजणहिअअदइए कइवच्छलपमुहसुकइणिम्मअए । सत्तसअम्मि समत्तं ती गाहास एअम् ॥
[ रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते । ___ सप्तशतके समाप्तं तृतीयं गाथाशतकमेतत् ॥] रसिकजनहृदयदयिते कविवत्सलकुशलसुकविपरिरचिते ।
सप्तशतके समाप्तं गाथाशतकं तृतीयमिदम् ॥ १०१॥ : कविवत्सलः ( हालः) कुशलः प्रमुखो येषु तादृशैः सुकविभिः परिरचिते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org