________________
संस्कृतगाथासप्तशती ।
[ गृहपते गतोऽस्माकं शरणं रक्षनमित्यसती भणित्वा ।
सहसागतस्य त्वरितं पत्युरेव जारमर्पयति ॥ ] अयि गृहपते गतो नः शरणं रक्षैनमिति भणन्त्यसती । सहंसागतस्य तूर्ण स्वभर्तुरेव स्वजारमर्पयति ॥ ९७ ॥ जारागमनोत्तरमेव सहसा अतर्कितमागतस्य स्वभर्तुरेव निर्मायताप्रदर्शनार्थं त्वरितं स्वस्य जारमर्पयति । गृहपते ! इत्यामन्त्रणेन गृहस्य त्वं स्वामीति गौरवबुद्ध्या तुभ्यमेव सोयं समर्पणीय इति द्योत्यते । अथवा शरणागतोयमेतावत्कालं गृहस्वामिन्या मया रक्षितः, इदानीं त्वं साक्षात्स्वामी समागत इति तदुपरि गौरवभरविन्यसनं द्योत्यते । स्वभर्तुरेवेत्येवकारेण खभर्तुरेव तासां प्रतारणं सुकरं किं पुनरन्यस्येत्यतिशयो योत्यते । भर्तृपदेन स केवलं रक्षणभरणकर्तेव न पुनर्दयित इति द्योत्यते ।
न किल प्रणयो निहूयमानोपि निपुणैर्न लक्ष्यत इति प्रतिपादयन्ती काचित्सखीं प्रति कस्याश्चिद्वृत्तनिदर्शनमाह
३ शतकम् ]
हिअअअस्स दिउ तणुआअन्तिण पेच्छह पिउच्छा । हिअअम्हि कंतो भणिउं मोहं गआ कुमरी ॥ ९८ ॥ [ हृदयेप्सितस्य दीयतां तनूभवन्तीं न पश्यथ पितृष्वसः । हृदयेप्सितोऽस्माकं कुतो भणित्वा मोहं गता कुमारी ॥ ] हृदयस्थिताय वितरत कृशितां पश्यत पितृष्वसन किम् । हृदयस्थितः कुतो नो मोहमगादिति कुमारिका ब्रुवती ॥ ९८ ॥ कौमारावस्थायामेव केनचन यूना सह कस्याश्चित्प्रणयमालक्ष्य विदग्धया कयाचित्कुमार्याः पितृष्वसारं प्रत्युक्तम् - अनया यस्मै हृदये स्थानं दत्तं तस्मै अस्या हृदयेप्सिताय इयं दीयताम् । इमां पूर्वमकृशामपि निरन्तरानुध्यानवशात्संप्रति कृशां किं न पश्यथ ? ततः स्वप्रणयवृत्तप्रकाशनेन लज्जिता सा - ' कुमारीणां नः हृदयस्थितः कुतः ?' इति ब्रुवती कुमारी प्रियस्मरणावेगान्मोहं गतेति भावः । 'हिअअहिअस्स' इत्यस्य 'हृदयेप्सिताय' इति गङ्गाधरच्छाया !
१४९
सुरतावसानोपचारचातुर्यं शिक्षयन्ती सखी कस्याश्विद्वृत्तं नायिकां प्रत्याहखिष्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स । ओलं गलन्तकुसुमं ण्हाणसुअन्धं चिउरभारम् ॥ ९९ ॥ [ खिन्नस्योरसि पत्युः स्थापयति ग्रीष्मापराद्धरमितस्य । आर्द्र गलत्कुसुमं स्नान सुगन्धं चिकुरभारम् ॥ ] खिन्नस्योरसि वितरति पत्युग्रष्मापराद्धरमितस्य ।
आई विगलत्कुसुमं खानसुगन्धं चिकुरभारम् ॥ ९९ ॥ ग्रीष्मापराह्ने रमितस्य अत एव खिन्नस्य पत्युरुरसि चिकुरभारं वितरति स्थापयतीति संबन्धः । सुगन्धिशीतलस्य स्नानमृदुलस्य केशपाशस्य स्थापनकौशलेन वल्लभस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org