________________
काव्यमाला।
प्राप्त इति निजसौभाग्यमभिव्यज्यते । 'अडअणाओ' असत्यः, इति गङ्गाधरटीका। कुलबालदेवस्तु 'जं अडअणाओ' इत्यस्य 'यं च ललनाः' इति च्छायामाह । __ पराङ्गनासजदुर्ललितस्य निजदयितस्य संकेतस्थानभनेन परितुष्य काचित्कुलवधूः पितृष्वसारमाह
गामवडस्स पिउच्छा आवण्डुमुहीण पण्डुरच्छाअम् । हिअएण समं असईण पडइ वाआहअं पत्तम् ॥ ९५ ॥ [ग्रामवटस्य पितृष्वस आपाण्डुमुखीनां पाण्डुरच्छायम् ।
हृदयेन सममसतीनां पतति वाताहतं पश्रम् ॥] ग्रामवटस्य पितृष्वस आपाण्डुरकान्ति पाण्डुरमुखीनाम् ।
सममसतीनां मनसा निपतति वाताहतं पत्रम् ॥ ९५॥ हे पितृष्वसः ! ग्रामवटस्य ग्राममध्यस्थवटस्य । अनेन जटापत्रगहनतया रात्रौ चौर्यसुरतसौकर्य व्यज्यते । आपाण्डुरकान्ति परिणततया सर्वतः पाण्डुरच्छायं पत्रं वाता. हतं सत् संकेतस्थानभङ्गात् विघटितसुरतसौख्यतया पाण्डुरमुखीनामसतीनां हृदयेन समं पतति । पत्रमित्येकवचनेन एकैकपत्रपतने हृदयपतनसमदुःखं भवतीति ध्वन्यते। संकेतस्थानभङ्गेनोभयोर्दुःखसंभवेपि केवलमसतीनां दुःखवर्णनाद्दयितापवादं जिहीर्षन्या नायिकाया दाक्षिण्यं पतिपरायणत्वं च द्योत्सते । अनया च सहोक्त्या 'अहं दयिताभिसारस्थानानि जानन्त्यपि तदनुवृत्तिकौशलेन सर्व सहे' इत्यात्मनो धैर्य व्यज्यते । आत्मन इङ्गितज्ञतां सूचयनागरिकः स्वसुहृदमाह
पेच्छइ अलद्धलक्खं दीहं णीससइ सुण्ण हसइ । जह जम्पइ अफुडत्थं तह से हिअअहिअंकिं पि ॥९६ ॥ [पश्यत्यलब्धलक्ष्यं दीर्घ निःश्वसिति शून्यं हसति ।
यथा जल्पत्यस्फुटार्थ तथा तस्या हृदयस्थितं किमपि ॥] पश्यत्यलब्धलक्ष्यं विहसति शून्यं श्वसिति दीर्घम् ।
जल्पति यथाऽस्फुटार्थ तथा तु हृदयस्थितं किमप्यस्याः॥९६॥ यथा इयं अलब्धलक्ष्यं यथा स्यात्तथा, लक्ष्यं विनैव पश्यतीत्यर्थः। दीर्घ निश्वसिति, अनेन चिन्ता व्यज्यते । शून्यं हसति, विनैव लक्ष्यं हसतीत्यर्थः । अस्फुटार्थ जल्पति. प्रियं हृदये स्मृत्वा तेन सममस्पष्टार्थं यथा तथा संलापादिकं करोतीत्यर्थः । अनेन स्मृतिय॑ज्यते-‘स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते' । तथा अस्याः किमपि हृदयस्थितमस्ति । अलक्ष्यं वीक्षणादिभिर्जायते यदियं प्रियतमदत्तहृदयास्तीति भावः । एषा प्रथमानुरागे नायिकाया विप्रलम्भचेष्टेति स० कण्ठाभरणम् । प्रत्युत्पन्नमतयः कुलटाः पतिमपि प्रतारयन्तीति शिक्षयनागरिकः सहचरमाह
गहवइ गओम्ह सरणं रक्खसु एअं त्ति अडअणा भणिरी । सहसागअस्स तुरिअं पइणो विअ जारमप्पेइ ॥९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org