________________
३ शतकम् ] संस्कृतगाथासप्तशती।
यथा यथा येन येन क्रमेण । सपत्नः प्रतिपक्षः। कृशति कृशो भवति, आचारार्थे क्किए । यौवनस्वभावान्मध्यः कटिदेशः, अत्यासत्या दयितः, ईर्ष्यासंतापाच सपत्नीप्रभृतिः प्रतिपक्षः कृशो भवतीति भावः। यौवनरूपकारणस्य मध्यादिकृशतारूपकार्यस्य च समानकालिकतावर्णनेनाक्रमातिशयोक्तिः । मध्यो दयितः सपत्नश्च कृशतीत्येकदेशे तु दयिते सपत्ने च तुल्यव्यापारवर्णनात्सरस्वतीकण्ठाभरणोक्ता द्वितीया तुल्ययोगिता झेया । एताभ्यामलंकाराभ्यामलंकृतेन वस्तुना तु वयःसन्धिकृतेन नायिकायाः सौन्दर्येणा सह दयितस्यात्यन्तं वल्लभा सा प्रचुरप्रयत्नेन साध्येति दूत्याकूतं ध्वन्यते ।
कुलवधूनां निजदयिते निरुपाधिकः प्रेमा भवतीति वृद्धपतिद्वेषिणीं कांचन चञ्चलशीलां शिक्षयन्ती काचिद्विदग्धवधूराह
जह जह जरापरिणओ होइ पई दुग्गओ विरूओ वि। कुलवालिआण तह तह अहिअअरं वल्लहो होइ ॥ ९३॥ [यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपोऽपि ।
कुलपालिकानां तथा तथाधिकतरं वल्लभो भवति ॥1 भवति पतिः किल जीर्णो यथा यथा दुर्गतो विरूपोपि ।
कुलयुवतीनामधिकं तथा तथा वल्लभो भवति ॥९३॥ यौवनं धनं सौन्दर्य वावलम्ब्य निरुपाधिकप्रेमवतीनां न प्रणयः । प्रत्युत वृद्धा दिः. किल नान्ययुवतीनां प्रेमभाजनं भविष्यतीति निरंशप्रेमलाभसंतोषेण निसर्गतः पतिप्रणयिनीनां कुलरमणीनामधिकाधिकं प्रीतिरिति भावः।
कस्मिन्नपि युवके बद्धप्रणया काचित्पथि गच्छन्तं तं समानवयःशीलां मातुलीं दर्शयन्ती आह
एसो मामि जुवाणो वारंवारेण जं अडअणाओ। गिम्हे गामेकवडोअअं व किच्छेण पावन्ति ॥ ९४॥
[एष मातुलानि युवा वारंवारेण यमसत्यः ।। ____ ग्रीष्मे ग्रामैकवटोदकमिव कृच्छ्रेण प्राप्नुवन्ति ॥] मातुलि सोयं युवको वारंवारेण यमसत्यः।
ग्रामैकवटोदकमिव कृच्छ्रेण प्रामुवन्ति धनधर्मे ॥ ९४॥ हे मातुलि, अयं स युवकोस्ति यम् असत्यो घनघर्मे निर्भरग्रीष्मसमये ग्रामस्य एक वटोदकमिव, वटवृक्षसमीपस्थस्य एकमात्रकूपस्य जलमिवेत्यर्थः । वारंवारेण वारक्रमेण, पर्यायेणेति यावत्, कृच्छ्रेण प्राप्नुवन्ति । ग्रामैकवटोदकमिवेत्यनेन ग्रामे सर्वासामयमेव स्पृहणीय इति तस्यासाधारणसौन्दर्य ध्वन्यते। घनधर्मे शीतलजलं विना जीवितं यथा दुर्वहं तथा सर्वासामप्यसतीनामयमालम्बनमिति तस्य दुर्लभत्वं व्यज्यते । पर्यायेण प्राप्नुवन्तीत्यनेन एकस्या उत्तरमेका प्राप्नोतीति तस्य स्वल्पकालाय लभ्यत्वं द्योत्यते। तथा च-यमन्याः खल्पकालार्थमपि महता कष्टेन प्राप्नुवन्ति स मयानायासेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org