________________
१४६
काव्यमाला।
संतापनार्थ बान्धवैर्वक्रोक्त्या कथितं वचनं गृहजनानां केवलं क्लेशकरमेव भवेन्न पुनः सामर्थ्याभावात्तत्प्रतीकारः क्षम इति बुद्ध्वा यथा न कथितं तथा तत्पूरणसामर्थ्याभावं ज्ञात्वा स्वदोहदोऽपि नोक्त इति भावः। दोहदस्योत्पत्तिमनुक्त्वा 'खहृदय एव विलीनः' इति केवलं तद्विलयस्यैव कथनेन उत्पन्नोपि दोहदः सुशीलतया न हृदये क्षणमपि स्थाप्यते किन्तु उत्पत्तिक्षण एव विलीयत इति सूच्यते, तथा च सोयमतिशयोक्तिध्वनिः । अथवा-हृदय एव विलीन इत्यनेन इच्छायाः प्रबलत्वेन वारं वारं सा हृदय एव भ्राम्यन्ती विलीयते न बहिः प्रकाश्यत इति सूच्यते । एवं च गृहजनस्य मनःक्लेशनिवारणार्थ स्वयं मनःक्लेशं सहन्ते कुलनार्य इति तां प्रत्यभिव्यज्यते। पुत्रवत्या अपि गृहिण्याः कियत्सौन्दर्यमिति दर्शयितुं सहृदयः खसुहृदमाह
धावइ विअलिअधम्मिल्लसिचअसंजमणवावडकरग्गा । चन्दिलभअविवलाअन्तडिम्भपरिमग्गिणी घरिणी ॥ ९१ ॥
धावति विगलितधम्मिल्लसिचयसंयमनव्यापृतकराया।
चन्दिलभयविपलायमानडिन्भपरिमार्गिणी गृहिणी ॥] धावति विगलितकचभरसिचयनियमनावरुद्धकरकमला ।
चन्दिलभयविपलायितबालकपरिमार्गिणी गृहिणी ॥ ९१ ॥ विगलितयोः कचभरसिचययोः (केशपाश-पटयोः) नियमने संयमने अवरुद्ध व्यापृते करकमले यस्याः सा । चन्दिलो नापितस्तस्य भयेन विपलायितस्य बालकस्यान्वेषिणी गृहिणी धावति । ससंभ्रमगमनेन विलुलितकेशवसनाञ्चलाया भुजमूलशोभां पश्यति भावः । क्षौरकष्टाशङ्कया बालका नापिताद्विभ्यतीति लोकः । 'चन्दिलः पुंसि वास्तूकशाके गर्भे च नापिते' इति मेदिनी । तथा च चन्दिलेति देशीशब्दः प्राकृतपर्यवसायीति येरुक्तं तदपास्तम् । अत एव ध्वन्यालोके 'अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते' इत्यत्र काका अर्थान्तरप्रतीतेरुदाहरणस्य 'आम असइओ ओरम." (५।१७) गाथाया व्याख्याने 'चन्दिलं नापितमेव पामरप्रकृतिं न कामयामहे' इति लोचनकारेण नापितवचनश्चन्दिलशब्दः संस्कृतभाषायामुपात्तः । 'कुलस्त्रीचरितविरुद्धं सपन्या थार्थ्य ख्यापयन्ती कापि बन्धुवधूजनमाह' इति गङ्गाधरावतरणम् । अत्र पलायमानेति मूलानुरोधे तु 'चन्दिलभयपरिधावबालक' इति पाठो बोध्यः ।। नायिकाया वयःसन्धि सौभाग्यं च भुजङ्गजनमनोहरणार्थं दूती आह
जह जह उव्वहइ बहू णवजोवणमणहराइँ अङ्गाई। तह तह से तणुआअइ मज्झो दइओ अ पडिवक्खो ॥ ९२ ॥ [यथा यथोद्वहते वधूनवयौवनमनोहराण्यङ्गानि ।
तथा तथा तस्यास्तनूयते मध्यो दयितश्च प्रतिपक्षः ॥] वहति वधूनवयौवनमनोहराणि हि यथा यथाङ्गानि । , कृशति नु तथा तथास्या मध्यो दयितः सपत्नश्च ॥ ९२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org