________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
[ तापमपनयति न तथा चन्दनपङ्कोऽपि कामिमिथुनानाम् । यथा दुःसहेsपि प्रीष्मे अन्योन्यालिङ्गनसुखकेलिः ॥ ] न तथापनयति तापं चन्दनपङ्कोपि कामिमिथुनानाम् । ग्रीष्मे यथा सुविषमेपि मिथः परिरम्भसुखकेलिः ॥ ८८ ॥ चन्दनपङ्को ग्रीष्मे बाह्यं तापमपनयति नाभ्यन्तरम्, अन्योन्यालिङ्गनके लिश्च पुनरुभयविधमिति भावः । ऊष्मोत्पादकस्यापि तापापनोदकत्वेन विरोधः, ततश्च ग्रीष्मेषि सर्वापेक्षया प्रियायामेवानन्दमधिकमुपलभे इति द्योत्यते । अत्र 'संतापातिशयखण्डनाय चन्दनलेपाद्युपचारं कुर्वाणां वारयन्ती विरहिणी काचिदाह' इति गङ्गाधरावतरणम् । संभोगचेष्टाखालिङ्गनं यथेति प्रघट्टके उदाहृता सेयं गाथा कण्ठाभरणे ।
कुलयुवतीनां सलज्जत्वेपि भावसूचनचातुर्यं प्रियतमेषु कियत्सुखावहमिति कस्याश्चन वृत्तान्तं नागरिकः सुहृदमाह
तुष्पाणणा किणो चिट्ठसि त्ति पडिपुच्छिआऍ बहुआए । विउणावेअिजहणत्थलाइ लज्जोणअं हसिअम् ॥ ८९ ॥ [ घृतलिप्तानना किमिति तिष्ठसीति परिपृष्टया वध्वा । faraष्टजघनस्थलया लज्जावनतं हसितम् ॥ ] किमिति घृतलिप्तवदना तिष्ठसि परिपृष्टयेति कुलवध्वा । द्विगुणावेष्टितजघनस्थलया लज्जानतं हसितम् ॥ ८९ ॥
घृतलिप्तवदना किमिति तिष्ठसीति स्त्रीष्वनधिकं प्रवृत्तेन प्रियतमेन परिपृष्टया वध्वा द्विगुणावेष्टितं पूर्वतोप्यधिकं प्रच्छादितं जघनस्थलं यया एतादृश्या सत्या त्रपया लज्जया - वनतं यथा स्यात्तथा हसितम् । जघनस्थलप्रच्छादन सहकृतेन सलज्जहसितेनात्मनो रजोदर्शनमाविष्कृतमिति भावः । रजोदर्शनसमये घृतलिप्ताननया स्थीयत इति स्त्रीणामाचारः । ‘सपत्न्या दुश्चारित्र्यख्यापनार्थं मुग्धवधूवृत्तविरुद्धां प्रथमरजोयोगसूचनव्युत्पत्तिं तस्याः सूचयन्ती कापि सेर्ष्यमाह' इति गङ्गाधरः ।
कुलयुवतीनां कठिनं किल चारित्र्यमिति शिक्षयन्ती पुरन्ध्री कुलवधूमाह - हिअअअ विलीणो ण साहिओ जाणिऊण घरसारम् । बान्धवदुव्वअणं विअ दोहलओ दुग्गअवहूए ॥ ९० ॥ [ हृदय एव विलीनो न कथितो ज्ञात्वा गृहसारम् । बान्धवदुर्वचनमिव दोहदो दुर्गतवध्वा ॥ ]
स्वहृदय एव विलीनो नोक्तो ज्ञात्वा तु गृहसारम् । बान्धवकुटिलवचनमिव दुर्गतवध्वा स्वदोहदो हन्त ॥ ९० ॥ दरिद्रस्य पत्न्या आत्मनो गृहस्य सामर्थ्यं ज्ञात्वा बन्धुजनानां संतापजनकं वचनमिव स्वदोहदो गर्भिणीत्वकाले संजातः स्वमनोभिलाषः पतिश्वश्र्वादीनामग्रे न कथितः किन्तु इन्त स हृदय एव विलीनः । 'प्रसवोत्सवे एवमिव धनवितरणादिकं भविष्यति' इति सं. गा. १३
Jain Education International
१४५
For Private & Personal Use Only
www.jainelibrary.org