________________
१४४
काव्यमाला।
यदि केपि महान्तः पुरुषा भवन्ति ते विकलस्य दुर्गतस्य उद्धरण आपन्निवारको निसर्गः खभावो येषां तादृशा भवन्तीत्यर्थः । केपीत्यनेन तादृशा महापुरुषा दुर्लभा भवन्तीत्यभिव्यज्यते । तथा चैतादृशमसुलभमुदाराशयं सत्वरमुपगच्छति दूत्या ध्वन्यते । अत्र 'भरन्तीत्यस्य बिभ्रतीति गङ्गाधरकृतच्छाया तु विच्छायैव, धारणार्थकस्य पूरणार्थेऽवाचकत्वात् । 'पोटें भरन्तीति मूलस्य उदरभरण एव तात्पर्याद्धारणार्थस्याऽसङ्गतेः। __कृत्रिमेणापि भावेन सोऽनुरजनीय इति वारं वारमनभिरुचितपुरुषानुरागार्थमागृह्णती दूतीं काचिद्विदग्धवधूराह
ण विणा सम्भावेण ग्घेप्पइ परमत्थजाणुओ लोओ। को जुण्णमञ्जरं कञ्जिएण वेआरिउं तरइ ॥ ८६॥
[न विना सद्भावेन गृह्यते परमार्थज्ञो लोकः । ___को जीर्णमार्जारं काञ्जिकया प्रतारयितुं शक्नोति ॥] लोकः परमार्थज्ञः सद्भावमृते न गृह्यते जातु ।
वञ्चयितुं काञिकया को वा शक्नोति जीर्णमार्जारम् ॥ ८६ ॥ परमार्थज्ञो वस्तुतत्त्वज्ञो लोकः सद्भावं विना कदाचिदपि न गृह्यते न वशीक्रियते । जीर्णमार्जारं वृद्धबिडालं दध्यादिस्थाने काञ्जिकां प्रदाय को वा प्रतारयितुं शक्नोति । काञ्जिकयेत्यनेन-कृत्रिमभावः स्नेहाग्रेऽतिलघुः सत्वरपरिचेयश्चेति सूच्यते । एतेन-बहुवनितासु कृतासक्तितया अनुभवशाली स न कृत्रिमभावेन प्रतारयितुं सुशक इति दूती प्रति ध्वन्यते ।
अलंकारायलाभेनापरितुष्टां नायिकामवबोधयितुमकारणस्नेहमहिमानमन्यापदेशेन दूत्याह
रण्णाउ तणं रण्णाउ पाणि सब सअंगाहम् । तह वि मआण मईण अ आमरणन्ताइँ पेम्माई ॥ ८७॥ [अरण्यात्तृणमरण्यात्पानीयं सर्वतः स्वयंग्राहम् ।
तथापि मृगाणां मृगीणां चामरणान्तानि प्रेमाणि ॥1 विपिनात्तृणमथ विपिनात्पानीयं सर्वतः खयंग्राह्यम् ।
हरिणानां हरिणीनां तथापि च प्रेम मरणान्तम् ॥ ८७ ॥ खयं ग्राह्यमित्यनेन भोजनादिभारोपि न पुरुषसात्तथापि मृगीणामपरिमितः प्रेमेति तां प्रत्यभिव्यज्यते । तथा च-केवलमलंकाराद्यप्राप्त्यैव प्रणयशिथिलीकरणं नोचितं प्रत्युत निरुपाधिकं प्रेमैव श्लाघ्यमिति ध्यन्यते । __ ग्रीष्मेपि कामिनोः परिरम्भणादि यथा सुखकरं न तथान्यदिति कश्चित्सहृदयः सुहृदमाह
तावमवणेइ ण तहा चन्दणपङ्को वि कामिमिहुणाणम् । जह दूसहे वि गिम्हे अण्णोण्णालिङ्गणसुहेल्ली ॥ ८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org