________________
३ शतकम् ]
संस्कृतगाथासप्तशती।
विलुठन्त्याः शयनीयतले विरहवेदनया इतस्ततः परिवर्तमानायाः पथिकजायाया निःस्थाम निःसहं यद्वर्तनं पार्श्वपरिवर्तनं तस्मिन् । वलिते चलिते करे, मुखरोऽनुबद्धझणत्कारो वलयशब्दः परिजनमाश्वासयति सान्त्वयति। कङ्कणशब्दं श्रुत्वा जीवतीति ज्ञानेन परिजनस्याश्वासो भवतीति भावः । चंक्रमणादिकस्य तु का कथा, शयनीयेपि सा यदा वेदनया पार्श्वपरिवर्तनं करोति तदैव जीवतीति ज्ञायते, तेन च विरहक्लेशातिशयो व्यज्यते । निःस्थामेत्यनेन पार्श्वपरिवर्तनमपि वेदनातिशयेन निःसहतयैव , करोति, अन्यथा तु पार्श्वपरिवर्तनायासमपि सा न सहते इति सूच्यते । वलित एव करे मुखर इत्यनेन-अशक्ततया किञ्चिद्धस्तस्पन्दन एव वलयशब्दो भवति, एवं च वलयानां समधिकशैथिल्येन कृशतातिशयो ध्वन्यते । जीवतीत्येतावन्मात्रेणापि सान्त्वनया विरहवेदनातिशयात्तस्या जीवनं परिजनस्य संदिग्धमेवेति ध्वन्यते । परिजनमाश्वासयति न पुनरन्यजनमित्यनेन समीपस्थतया परिजनेनैव कङ्कणशब्दो विरहदुर्बलायाः श्रूयत इति शय्योपान्तस्थितपरिजना संदिग्धजीवना सा कथंचिन्नाद्यापि दशमी दशामुपगतेति सत्वरं गृहमुपगच्छेति प्रवासिनं प्रत्यभिव्यज्यते ।
क्षीणविभवोपि स न कदाचिदनुदाराशयः स्यादिति नायिकामनुकूलयितुं दूती नायकोदार्यमाह
तुङ्गो चिअ होइ मणो मणंसिणो अन्तिमासु वि दसासु । अस्थमणम्मि वि रइणो किरणा उद्धं चिअ फुरन्ति ॥८४॥ [तुङ्गमेव भवति मनो मनस्विनोऽन्तिमास्वपि दशासु ।
अस्तमनेऽपि रवेः किरणा ऊर्ध्वमेव स्फुरन्ति ॥] उन्नतमेव मनः स्यान्मनस्विनो ह्यन्तिमास्वपि दशासु। किरणाः स्फुरन्ति संततमस्तमनेप्यूवमेव रवेः॥ ८४॥ अस्तमनेपि रवेः किरणाः संततं नित्यमूर्ध्वमेव स्फुरन्ति प्रसरन्ति । अनेन दृष्टान्तेन उन्नतमनाः स त्वामेव कामयते न कदाचिदधमां स्पृहयेन चास्य वदान्यतायां विशङ्कवेति नायिकायाः प्रोत्साहनं व्यज्यते ।
अतीवोदाराशयः कारुणिकश्च स इति नायकगुणसूचनेन काञ्चिदुन्नतहृदयां नायिकामनुरञ्जयन्ती दूती सुजनप्रशंसामाह
पोट्टं भरन्ति सउणा वि माउआ अप्पणो अणुविग्गा । विहलुद्धरणसहावा हुवन्ति जइ के वि सप्पुरिसा ।। ८५ ॥ [उदरं बिभ्रति शकुना अपि हे मातर आत्मनोऽनुद्विग्नाः ।
विह्वलोद्धरणस्वभावा भवन्ति यदि केऽपि सत्पुरुषाः ॥] उदरं भरन्ति मातः शकुना अप्यात्मनो ह्यनुद्विग्नाः।
विकलोद्धरणनिसर्गा भवन्ति यदि केपि सत्पुरुषाः॥८५॥ परोदरपूरणचिन्ताशून्यतया अनुद्विमाः शकुनाः पक्षिणोपि आत्मन उदरं पूरयन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org