________________
१४२
काव्यमाला।
[गन्धेनात्मनो मालिकानां नवमालिका न च्युता भविष्यति । ___ अन्यः कोऽपि हताशाया मांसलः परिमलोद्द्वारः॥1 अन्यकुसुममालासु च्यवेत नवमालिका न गन्धेन ।
कोऽप्यन्यः किल मांसलपरिमलपटलो हताशायाः॥ ८१ ॥ अन्यपुष्पग्रथितमालिकानां मध्ये नवमालिका (पुष्पम् ) आत्मनो गन्धेन न च्युता भवेत् , न न्यूना भविष्यतीत्यर्थः । यतः किल हताशाया अस्या मांसलो बहलः परिमलपुञ्जः काप्यन्य एव अन्यपुष्पेभ्यो विलक्षण एव । हताशाया इति प्रेमभनियोक्तिः । अथवा हता आशा अन्यासां सपत्नीनां यया तस्या इत्यर्थः । तथा च-स्खलावण्येन अन्यसपत्नीनामियं परिभवप्रदा स्यादिति व्यज्यते । कोऽपीत्यनेन परिमलस्यानिर्वचनीयता सूच्यते । तथा च-ये किलास्याः सौन्दर्यसौकुमार्यादयो गुणाः सन्ति तानहमेव जा. नामि, न त्वां वचनेन प्रत्याययितुं प्रभवामीति सुहृदं प्रत्यभिव्यज्यते। मांसल इत्यनेन बहलमस्याः सौन्दर्य तथा चोपभोगादिना मन्दीभूतलावण्यच्छायतया शिथिलितभर्तृप्रणयाया अस्याः कदाचिल्लाभः स्यात्सायाशा नेति द्योत्यते । एवं च-सर्वसपन्नीजनमूर्धन्या सेयं भर्तुः परमवल्लभा स्यादतोऽस्याः पुनःसमागमाय सुभृशं विमनाये इत्यात्मनोभिप्रायः सुहृदं प्रतिध्वन्यते ।। नष्टधनं भुजङ्गमुत्साहयितुं कुट्टनी सत्पुरुषप्रशंसामाह--
फलसंपत्तीअ समोणआइँ तुङ्गा फलविपत्तीए । हिअआइ सुपुरिसाणं महातरूणं व सिहराई ॥ ८२ ॥ [फलसंपत्त्या समवनतानि तुङ्गानि फलविपत्त्यां।
हृदयानि सुपुरुषाणां महातरूणामिव शिखराणि ॥] तुङ्गानि फलविपत्त्या फलसंपत्त्या नितान्तनम्राणि ।
हृदयानि सुपुरुषाणां महातरूणामिवोच्च शिखराणि ॥ ८२ ॥ दैवदत्तवैभवसम्पदा अत्यन्तमवनतानि, गर्वशून्यत्वात्। वैभवक्षये तु दैन्यजनितहदयाधोगतिराहित्येन सुपुरुषाणां हृदयानि महाशयत्वादुन्नतानीति भावः। शिखराणि अग्राणि । फलशब्दस्य श्लिष्टत्वेन श्लेषानुप्राणिता सेयमुपमा । अनया च 'धनापगमेपि उन्नतहृदयेन न त्वया विमनायितव्यम्' इति भुजङ्गं प्रत्यभिव्यज्यते । प्रोषितभर्तृकायाः सखी तत्कान्तस्य सत्वरं गृहागमनाथ तत्समीपगामिनं पान्थमाह
आसासेइ परिअणं परिवत्तन्तीअ पहिअजाआए। णित्थाणुवत्तणे वलिअहत्थमुहलो वलअसद्दो ॥ ८३ ॥ [आश्वासयति परिजनं परिवर्तमानायाः पथिकजायायाः ।
निःस्थामवर्तने वलितहस्तमुखरो वलयशब्दः ॥] आश्वासयति परिजनं विलुठन्त्या हन्त पथिकजायायाः। निःस्थामवर्तने किल वलयरवो वलितकरमुखरः ॥ ८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org