________________
३ शतकम् ]
संस्कृतगाथासप्तशती।
१४१
ताम् , इत्यभिधया वाच्यार्थबोधे पर्यवसिते फलपदेन शब्दशक्तिमूलानुरणनव्यङ्ग्यरूपेण 'सर्वातिशायिनोपि जनस्य फलं संपल्लक्षणं दैवाधीनतया कदाचिन्न भवति' इति सामान्यरूपं विशेषस्य समर्थकं प्रतीयत इत्यर्थान्तरन्यासस्य ध्वनिः। संपूर्णवाक्यार्थेन तु "दैवायत्तौ लाभसत्कारौ मा भवतां नाम, परमेतत्सदृशी परःशतेष्वपि सुन्दरी न प्राप्स्यते, तत्कि विचारयसि, निजसौभाग्यं बहु मन्यस्व" इति भुजङ्गं प्रति ध्वन्यते । अप्रस्तुतेनाशोकवृत्तान्तेन प्रस्तुतस्य नायिकावृत्तान्तस्य प्रतीतिरित्यप्रस्तुतप्रशंसाध्वनिरिति सेयं गाथा ध्वन्यालोक उदाहृता ।
कलहान्तरितां नायिकामनुनेतुमागतः कान्तः खसौभाग्यख्यापनाय निजसुहृदं प्रति तां प्रदर्शयन्नाह
धुअइ व्व मअकलङ्क कवोलपडिअस्स माणिणी उअह । अणवरअवाहजलभरिअणअणकरसेहिँ चन्दस्स ॥ ८० ॥ [धावतीव मृगकलङ्क कपोलपतितस्य मानिनी पश्यत ।
अनवरतबाष्पजलभृतनयनकलशाभ्यां चन्द्रस्य ॥] क्षालयतीव कलकं कपोलपतितस्य मानिनी शशिनः।
अनवरतबाप्पजलभृतनयनघटाभ्यां विलोकयत ॥ ८०॥ मानिनी कपोले प्रतिबिम्बितस्य चन्द्रस्य कलङ्कमनवरतबाष्पजलेन भृताभ्यां नयनकलशाभ्यां क्षालयतीव इति पश्यत । चन्द्रप्रतिबिम्बसंक्रमणेन कपोलयोर्मसृणता-स्वच्छतातिशयश्च सूच्यते, तेन च नायिकायाः सौन्दर्यातिशयो द्योत्यते । शशिनः कलङ्क क्षालयतीवेत्युत्प्रेक्षया 'वन्मुखस्याग्रे कलङ्कीति प्रत्यक्षं चन्द्रोवधीरित एव, परमिदानीं मानेनाप्रसन्नं मुखं दधती त्वं चन्द्रापमानकलङ्क स्वयं प्रक्षाल्य मुखसाम्ये तं स्थापयितुमिच्छसीति मुखाप्रसादनकरं मानहतकं लघु परित्यज' इत्यनुनयो ध्वन्यते । अथवा बाष्पजलैः कपोलक्षालने कजलश्यामिकासङ्गेन चन्द्रमध्ये निष्कलङ्कस्य तवाननस्य सादृश्यप्रतिबन्धको यो मृगकलङ्क आसीत्तं क्षालयसि, तवापि कजलकालिम्नाऽङ्कसंबन्धान्मुखेन सह चन्द्रसादृश्ये प्रतिबन्धाभावाञ्चन्द्रकलङ्कक्षालनमेवेति पश्य विरोधिनो जयम् , ततश्चालं मानप्रसङ्गेनेति नायकाकूतं ध्वन्यते । किञ्च कपोले कज्जलेन कलङ्कं कुर्वत्यपि कलङ्क क्षालयसीति विरोधध्वनिरपि सहृदयैरनुभवनीयः। एवं च-असामान्यसुन्दर्या अपि मद्वियोगे कियदस्या दुःखम् , अत एव पश्य मे सौभाग्यमित्यनवरतबाष्पेत्युक्त्या सूचयन्नायकः खसौभाग्यगर्वं सुहृदं प्रत्यभिव्यनक्ति ।।
बहुपत्नीकस्य भर्तुर्नेयमत्यन्तवल्लभा भविष्यति, ततश्च त्वद्गतमानसा सेयं पुनरागमिष्यत्येवात्र, ततः किमेतावद्विक्लवोसीति वयस्येनाश्वास्यमानः पितृगृहात्पतिगृहं प्रयान्त्याः कस्याश्चिदुपनायकस्तं प्रत्यन्यापदेशेनाह
गन्धेण अप्पणो मालिआण णोमालिआ ण फुट्टिहइ । अण्णो को वि हआसाइ मंसलो परिमलुग्गारो ।। ८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org