________________
१४०
काव्यमाला ।
[ अनुनयप्रसादितया तवापराधांश्विरं गणयन्त्या । अप्रभूतोभयहस्ताङ्गुल्या तया चिरं रुदितम् ॥ ] अनुनयपरितोषितया तवापराधांश्विरेण गणयन्त्या । अप्रभवत्करयुग्माङ्गुल्या च तया चिरं रुदितम् ॥ ७७ ॥ चिरेण बहुकालपर्यन्तम्, अनेनापराधानां बहुत्वं व्यज्यते । गणनावसरे अपराधानां बहुत्वादप्रभवन्त्यः ( गणनां कर्तुमशक्नुवत्यः ) करयुग्मस्य उभयोः करयोरङ्गुल्यो यस्या - स्तया । ईथतोपराधान् कथं गणयामीत्याकुलया तथा बहुकालं रुदितम् । ननु अपराधगणनायामपि कथमियं मुग्धेति चेत् मुग्धाया अपि तथाचेष्टा वर्ण्यते । उक्तं स्वयं कोषकारेण-'हत्थेसु अ पाएसु अ' (४७), किश्च सख्यनुनयेनैव प्रसादः, तदम एवापराधगणनापि मुग्धात्वे साधिका । तथा च 'मुग्धया तया बहवस्तवापराधा इदानीं मदनुनयेन सोढाः, न पुनरेवमग्रे करिष्यसि' इति नायकं प्रत्यभिव्यज्यते ।
प्रियतमसकाशादागतां प्रखिन्नाङ्गीं नायिकामुद्दिश्य सखी सखीः प्रति सपरिहासमाह - सेअच्छलेण पेच्छह तणुए अङ्गम्मि से अमाअन्तम् । लावण्णं ओसरइ व्व तिवलिसोवाणवत्तीए ॥ ७८ ॥ [ स्वेदच्छलेन पश्यत तनुकेऽङ्गे तस्या अमात् । लावण्यमपसरतीव त्रिवलीसोपानपङ्गिभिः ॥ ] स्वेदच्छलेन पश्यत तनुनि तदङ्गे विमातुमसमर्थम् । लावण्यं सरतीव त्रिवलीसोपानपङ्कयेदम् ॥ ७८ ॥
तनुनि तस्या अ विमातुमसमर्थम् ( अमात् ) इदं लावण्यं त्रिवलीरूपसोपानपङ्कया स्वेदच्छलेन सरति बहिर्निःसरतीति पश्यत । तथा च- - दयितेन सह यौवनसुखमुपभुज्य समागतेयमिति सखीः प्रति सरसपरिहासो व्यज्यते । ' नर्तनश्रमप्रखिन्नान्न्या दुहितुः सौन्दर्यातिशयं कामुकचित्तप्रलोभनाय कुट्टनी वर्णयति' इति गङ्गाधरावतरणम् । चौर्यरतगोपनार्थं सख्या उक्तिरियमिति केचित् ।
कस्याश्चित्प्रभूतधनाप्राप्तिरूपं दोषं परिहर्तुं भुजङ्गजनोत्कण्ठां संवर्धयन्ती कुट्टनी सौन्दर्यप्रशस्तिमन्यापदेशेनाह
देव्वाअचम्मि फले किं कीरह एत्तिअं पुणो भणिमो । कल्लिपल्लवाणं ण पल्लवा होन्ति सारिच्छा ॥ ७९ ॥ [ दैवायत्ते फले किं क्रियतामियत्पुनर्भणामः । कङ्केल्लिपल्लवानां न पल्लवा भवन्ति सदृशाः ॥ ] दैवायत्ते तु फले किं क्रियतां पुनरियद् ब्रूमः । कङ्केल्लिपल्लवानां न पल्लवाः सन्ति सदृशोऽन्ये ॥ ७९ ॥ करिशोकवृक्ष इति त्रिकाण्डशेषो राजनिघण्टश्च । अन्ये पल्लवा अशोकपल्लवानां न सन्ति सदृशा इत्यवश्यं भणामः । फलमाम्रादिवन्नास्ति एतत्तु दैवाधीनमत्र किं क्रिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org