________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
१३९
>
दयितया समास इत्यनेन नवाङ्गनायां तव प्रेमसंक्रमणेपि मम तथैव त्वयि प्रणयः, प्रत्युत त्वत्प्रियेति त्वत्प्रणयबहुमानेन तामपि हृदये करोमीत्यात्मनः प्रेमातिशयः प्रकाइयते । किं वा - त्वद्गत चित्ततया मम हृदयात्तवाऽपसरणमसंभवमेव त्वं चैषु दिनेषु नवीनया तया तव प्रियया विना क्षणं न तिष्ठस्येव । अत एव त्वन्मूर्त्या सह सपत्नीरूपेण सापि मम हृदये प्रतिक्षणमुदयतीत्युपालम्भोभिव्यज्यते । तथापि भणसीत्यनेन 'प्रणयभङ्गेन मद्दैन्यं जानतस्तव 'किमिति इयं कृशास्ति' इति विचारानयनमप्यनुचितं तथापि त्वं मुखेन प्रत्यक्षं मां प्रति कथयसीत्यहो ते नैर्घृण्यम्' इत्युपालम्भोभिव्यज्यते । स० कण्ठाभरणानुसारं वैसादृश्यवती सेयं सहोक्तिः । कृशतायामुपरिभारस्य कारणत्वमुक्तमिति काव्यलिङ्गम् । आभ्यामलंकाराभ्यां 'नवप्रियासंक्रान्तप्रणयस्य ते वैमुख्यत एव मम सेयं दशा । त्वं दुर्बलतामेव पृच्छसि परं कदाचित्प्रेमभङ्गदुःखान्ममान्तोपि भवेत् ( अङ्गानि मुञ्चतीति अङ्गमोचनार्थोपन्यासात् ), परं परगतदुःखाननुभवान्न च त्वमिदं वेत्सि' इति सोपालम्भं प्रणयावेदनं ध्वन्यते ।
चिरप्रवासादागतस्य दयितस्य रमणवृत्तान्तं सख्याऽनुयुक्ता नायिका सानुरागमाहदिढमूलबन्धगण्ठि व्व मोइआ कहँ वि तेण मे बाहू । अम्हेहिं वि तस्स उरे खुत्त व्व समुक्खआ थणआ ॥ ७६ ॥ [ दृढमूलबन्धग्रन्थी इव मोचितौ कथमपि तेन मे बाहू | अस्माभिरपि तस्योरसि निखाताविव समुत्खातौ स्तनौ ॥ ] गूढग्रन्थी इव कथमपि मे तेन मोचितौ बाहू | अस्माभिरपि तदुरसि स्तनौ निखाताविवोत्खातौ ॥ ७६ ॥
दृढं गूढा ग्रन्थिर्ययोः, अनुरागनिर्भर परिरम्भणवशादन्योन्यं निबिडावसक्तौ मे बाहू तेन कथमपि मोचितौ । ग्रन्थिपदेन, अनर्घमभिलषितधनं यथा दृढग्रन्थया निबध्यते तथा बहोः कालादुपलब्धः प्रेयान्न पुनरपसरेदिति दृढभुजबन्धेन बध्यत इति सूच्यते । तेन दयितं प्रत्यनुराग उत्कण्ठातिशयश्च ध्वनितः । कथमपीति पदेन सुखविहलाया मे नासीद्दयितं मोक्कुमवबोधः, परं दयितेन कष्टाद्बाहुबन्धो मोचित इति जडता ध्वन्यते । अस्माभिरपि तदुरसि निखाताविव भूमिनिहितन्यासाविव अन्तरवरोपितौ स्तनौ कथमपि उत्खातौ उद्धृतौ । तदुरसि निखातावित्यनेन स्तनयोः काठिन्यमुत्तुङ्गता चाभिव्यज्यते । निखातावित्यनेन - निधिकुम्भौ यथा भूमौ निखन्येते तथा दृढमाश्लिष्यता प्रियतमेन स्तनौ निजोरसि निखाताविति स्तनयोर्बहुमानेनानुरागातिशयो ध्वनितः । दृढग्रन्थी इव, निखाताविवेति, उपमाभ्यां नायकयोः परस्परममूल्यधनबुद्ध्या मिथः प्रणयपरिपाकातिशयो व्यज्यते ।
मुग्धां कलहान्तरितामनुनीयागता सखी तत्कान्तमाहअणुणअपसाइआए तुज्झ वराहे चिरं गणन्तीए । अपटुत्तोह अहत्थङ्गुरीअ तीए चिरं रुण्णम् ॥ ७७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org