________________
१३८
काव्यमाला ।
- निधुवनेऽतथाव्युत्पन्नत्वादिच्छासत्त्वेपि अकौशलप्रकटनभयेनाप्रवर्तमानस्य धनिकनवयुवकस्य वैलक्ष्यव्यपगमनपूर्वकं तत्कर्मणि प्रवृत्तिपाटवार्थं धूर्ता काचित्सद्भावस्नेहरतप्रशं. सामाह
ण वि तह छेअरआई वि हरन्ति पुणरुत्तराअरसिआई। जह जत्थ व तत्थ व जह व तह व सब्भावणेहरमिआई॥७४॥
[नापि तथा छेकरतान्यपि हरन्ति पुनरुक्तरागरसिकानि । ___ यथा यत्र वा तत्र वा यथा वा तथा वा सद्भावस्नेहरमितानि ॥] न तथा छेकरतान्यपि हरन्ति पुनरुक्तरागरसिकानि ।
सद्भावस्नेहरतानि यथेच्छविधानि यत्र तत्र यथा ॥ ७४ ॥ पुनरुक्ते पुनःपुनः परिशीलिते रागे रखने रतव्यापारे रसिकानि रसानुभवशालीनि। छेकानां कामशास्त्रप्रसिद्धरतशिल्पकुशलानां रतान्यपि तथा न हरन्ति यथा यत्र तत्र अवसरलाभानुसारं यस्मिन्कस्मिंश्चित्स्थाने प्रवृत्तानि, यथेच्छं विधा येषां तानि यथेच्छविधानि । येन केनापि प्रकारेण कल्पितानीत्यर्थः । एवंविधानि सद्भावनेहेन यानि रतानि तानि हरन्ति मनो वशीकुर्वन्ति । विदग्धजनरतानि कामशास्त्रप्रसिद्धबन्धालिङ्गनादिपूर्वक्षुण्णमार्गानुसारित्वेन पुनरुक्तिपरिशीलकत्वाच्चर्वितचर्वणोपमानि । अनेन बहुविदग्धजनेबेहुधा रमणेऽहमुररीकृता, तथा च भवतोपि मत्समागमेन तत्कौशलमुदोदिति युवकोत्साहनं व्यज्यते । एवंविधेषु विदग्धरतेषु स्नेहापेक्षया कांशलप्रदर्शनस्पर्धाऽधिका भवति, नवजनरते तु सद्भावस्नेह एव निर्भरं भवतीति भावः । तथा च 'मा संकोचं कार्षीरहं त्वस्नेहनिर्भराणि रतानि भृशमभिरोचयामि' इति तत्प्रवृत्ती तस्य प्रोत्साहनमभिव्यज्यते। स० कण्ठाभरणे 'उपचारानपेक्षो विस्रम्भजः प्रेमप्रकारो यथा' इति प्रसङ्गे उदाहृता सेयं गाथा । नववनितासक्तं स्वामिनं तत्प्रणयवञ्चिता पूर्वसुभगा प्रश्नस्योत्तरे आह
उज्झसि पिआइ समअं तह वि हु रेभणसि कीस किसित्ति। उवरिभरेण अ अण्णुअ मुअइ बइल्लो वि अङ्गाइं ॥ ७५ ॥
[उह्यसे प्रियया समं तथापि खलु रे भणसि किमिति कृशेति । ___ उपरि(भरेण) च हे अज्ञ मुञ्चति बलीवर्दोऽप्यङ्गानि ॥] सममुह्यसे दयितया तथापि कृशितासि किमिति रे भणसि ।
अनभिज्ञोपरिभरतो मुञ्चति बलदोपि चाङ्गानि ॥ ७५ ॥ प्रियया सह उह्यसे उरसि धार्यसे । तथापि 'किमिति कृशिता कृशेव जातासि' इति रे भणसि । 'रे' इति अवस्कन्दितचित्तया प्रणयधार्थ्यन प्रयुक्तमिति बोध्यम् । हे अनभिज्ञ ! उपरिभरतो उपरिनिहितभारवशाद् बलीवर्दीप्यङ्गानि मुञ्चति, सोऽप्यङ्गैः क्षीयत इत्यर्थः । अपिना बलीवर्दस्यापीयं दशा, तदा किं ममाऽबलाया वाच्यमिति सूच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org