________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
१३७
श्चर्यमेवेति नायिकयाऽभिव्यज्यते । पुनरपि चिन्तां करोषीत्यनेन प्रवासेनुभूतानि दुःखानि संस्मार्य, तानि पुनरुपस्थापयितुं विचारयसीति पूर्वदुःखानुभवं प्रतीङ्गितं योत्यते । चिन्तां करोषीत्यनेन ' गमनस्य का कथा, तच्चिन्तामात्रमपि मम प्रवाससमदुःखानुभावकतया वेदनादायीति' ग्लानिसंचारी द्योत्यते । करोषीति परस्मैपदेन 'एतच्चिन्ताकरणस्य फलमात्मने न स्यात्तादृग्भयावहं परं परस्मै तदैकान्तिकवेदनापदं भवेदित्युपालम्भो व्यज्यते । त्वद्विरहे केशानामप्रसाधनाद्वेणीरूपमवाप्ता अत एव तरङ्गिणः कुटिलीभूताः केशा हन्त अद्यापि सरला न भवन्ति । तव विरहे केशानां तादृग्वेणी बद्धा यदेषु दिनेषु प्रतिदिनं प्रसाधनेपि कौटिल्यभाजां केशानां सरलता न जातेति भावः । अनेन प्रवासादागमनस्य खल्पकालता सूच्यते । तथा च- - केशपर्यन्तेष्वपि त्वत्प्रवासचिह्नमद्यापि वर्तते, एतावत्त्वरितं पुनर्गन्तुं चिन्तयसीति नायकं प्रति गमनशीघ्रताजनितवेदनातिशयो द्योत्यते । एवं च - स्मर्यन्तां प्रवासे यानि दुःखानि भवता मया च पूर्वमनुभूतानि तानि पुनः संनिधापयितुं विचारमपि हृदि आनयसीति दुष्करं करोषीति नायकस्य कठिनहृदयतां सूचयन्ती सा दैन्येन सह दुष्करकारकपदोपोद्वलितमुपालम्भं ध्वनयतीति सहृदयैर्विभावनीयम् । प्रवासोद्भूतभृशोत्कण्ठादिभिश्चित्तवासना प्रवासानन्तरेपि तस्या नोपशाम्यतीति वेणीवर्णनादिना सूच्यते एतदुदाहरणे दत्ता सेयं गाथा स० कण्ठाभरणे
1
,
१ एतद्गाथार्थमुपजीव्य व्रजभाषाकविमूर्द्धन्येन परममार्मिकेण विहारिणा दोहाछन्द उपनिबद्धम् —
'अज्यौं न आये सहजरंग बिरह दूबरे गात ।
अबही कहा चलाइयत ललन चलनकी बात ॥'
'विरइकृशान्यङ्गानि नाद्यापि शरीरस्वास्थ्य सूचिकां सहजामवस्थामवाप्तानि 'हे ललन' अधुनैव नमनस्य वार्ता किमिति प्रवर्तयसि ।' इदानीं विचार्यतां कस्यातिशायि वर्णनमिति । 'अबहीं कहा चलाश्यत' पदेन ज्ञायते यद् गमनशीघ्रतानिवारणमत्राप्यभिप्रेतम् । शरीरे कृशतानिवृत्तिपूर्वकं सहजशोभागमः पूर्वभावी, उत प्रत्यहं प्रसाधनेन सरलीक्रियमाणानां केशानां पूर्वावस्था ? रसरतापचयद्वारा भाविनी प्रायो नात्महस्तगता शरीरपुष्टिरवश्यं बहुभिर्दिनैः स्यात् । उन्मार्जन- प्र साधनादिद्वारा आत्मायत्ता केशानां पूर्वावस्था ततः शीघ्रभाविन्येव । ततश्च केशपर्यन्तादपि पूर्वविरहचिह्नं न निवृत्तं भवांश्च पुनर्गन्तुं चिन्तयतीति गमनशीघ्रता प्रदर्शनकृतं नायकस्य कठिन - हृदयत्वं गाथैवाधिकं सूचितवतीति निर्विवादम् । किञ्च गमनस्य वार्ता प्रवर्तयसीत्यपेक्षया 'गमनस्य चिन्तामपि करोषीति' चिन्तामात्रस्य विरहवेदनादायकत्वं सूचयन्गाथाकार एवाधिकं मार्मिक इति सूक्ष्मं विचार्यताम् । किञ्चैवं विरहवेदनासमये हृदयावेगप्रकाशनकृत-प्रणयजिह्मताप्रदर्शनावसरेपि 'चलन' इति शिथिलसंबोधनं न च्छायां तथा पुष्यति, यथा 'हंहो ! दुष्करकारक' इत्यत्र चिन्तामपि करोषि तद्दुष्करं करोषीति कठिनहृदयता चित्रोपस्थापकं दुष्करकारकेति संबोधनम् । किञ्च 'पुनरपि' पदेन यत्पूर्वदुःखानुभवं प्रतीङ्गितं तदपि दोहाछन्दसि लुप्तप्रायम् । परस्मैपदव्यअनं तु भाषायामसंभवमेव । एवं स्थितेपि गाथात आधिक्यस्थापनं केषांचित्पक्षपात एव । विहारिणः सूक्तेः संस्कृतपद्येनुवादस्तद्विमर्शनं च ' कविता निकुञ्ज'न्तर्गत-मत्संकलित - 'साहित्यवैभव' तोऽवगन्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org