________________
१३६
काव्यमाला |
[ कथं सा निर्वर्ण्यतां यस्या यथालोकितेऽङ्गे । दृष्टिर्दुर्बला गौरिव पङ्कपतिता नोत्तरति ॥ ] निर्वर्ण्यतां कथं सा यस्या अङ्गे यथा दृष्टे । दुर्बलगवीव दृष्टिः पङ्कनिपतिता हि नोत्तरति ॥ ७१ ॥
निर्वर्ण्यतां विलोक्यताम्, सा सर्वाङ्गेषु कथं दृश्यतामित्यर्थः । यस्या नायिकाया अने यथा येन प्रकारेणावलोकिते सति दृष्टिः पङ्कपतिता दुर्बला गौरिव नोत्तरति, अग्रे न चलति तदङ्गलावण्यवशीभूता तत्रैवावतिष्ठत इति भावः । अनेन नायिकालावण्यस्य आसेचनकत्वं ध्वन्यते । यदास्माभिर्लावण्यवशीभूतया दृष्ट्या संपूर्णा साऽवलोकितैव न तदा कथमस्माकं तत्सुन्दरता वचनगोचरा भवतु । एवंविधामसामान्यसुन्दरीमनुपदमेव वशयेति दूत्या व्यज्यते । एतदर्थसंवादिनी पूर्वमपि गाथा वर्णिता' जस्स जाँ विअ०' ३४ ।
कस्मिन्नपि स्नेहबन्धमास्थापयितुं वदन्तीं दूतीं नायिका आहकीरन्ती विअ णासह उअए रेह व्व खलअणे मेत्ती । सा उण अणम्मि कआ अणहा पाहाणरेह व्व ॥ ७२ ॥ [ क्रियमाणैव नश्यत्युदके रेखेव खलजने मैत्री |
सा पुनः सुजने कृता अनघा पाषाणरेखेव ॥ ] क्रियमाणैव विनश्यत्युदके रेखेव खलजने मैत्री ।
सुजने कृता तु सा पुनरनधा पाषाणरेखेव ॥ ७२ ॥ क्रियमाणैवेति वर्तमानार्थकशानचा मैत्री स्थापनव्यापारस्यापूर्णता सूच्यते । तेन यावत्पर्यन्तं पूर्णा मैत्र्यपि न सिद्ध्यति, ततः पूर्वमेव खलस्य दौरात्म्येन सा भज्यत इति व्यज्यते । अनघा निरपाया, कालान्तरेपि नाशायोग्येत्यर्थः । तथा च--: — अस्थिरस्नेहे तस्मिन्प्रणयबन्धो मुधैवेति दूतीं प्रति द्योत्यते । अत्र पाषाणरेखेति लौकिक निदर्शनस्य कियन्माधुर्येण निर्वाह इति सहृदयैरालोच्यम् ।
चिरप्रवासादागत्य पुनः प्रवासाय विचारयन्तं कान्तं काचित्सदैन्योपालम्भमाहअव्वो दुक्करआर पुणो वि तन्ति करेसि गमणस्स । अज वि ण होन्ति सरला वेणीअ तरङ्गिणो चिउरा ॥ ७३ ॥ [ अन्वो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य ।
अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः ॥ ] हो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य । नाद्यापि हन्त सरला भवन्ति वेण्यास्तरङ्गिणश्चिकुराः ॥ ७३ ॥ हो दुष्करकार केत्यत्र 'हो' इति साश्चर्यचमत्कारे । एवं च ' प्रवासे तवानुस्मरणेन भूयान्मया क्लेशोऽनुभूतः' इत्यादि विश्रब्धमालपितवानपि पुनः प्रवासं विचारयसीत्या
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org