________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
१३५
इति कुलबालदेवीका । एतस्य वदनस्य पङ्कजस्य च मध्ये कतरत्सुखस्पर्शमस्ति इति स वेत्तु जानातु । प्रत्यहं पङ्कजं करेण स्पृशन्नयमेवाद्योभयोः स्पर्शसुखतारतम्यं निर्णेष्यतीति भावः । अनेन तव वदनं कमलमिव मृदु सुरभि सुन्दरमस्तीत्युपमालंकारो ध्वन्यते । स वेत्तु कतरत्सुखस्पर्शमित्यनेन तव मुखमेव स्पर्शे समधिक सुखकारकमिति वक्तुराकूतेन व्यतिरेकव्वनिरेव वा । अत्र पङ्कजपदेन पङ्कोत्पन्नस्यास्य कियत्स्पर्शसौरभादि भविष्यतीति जानात्विति अर्थगाम्भीर्यं ध्वन्यते । ततश्च व्यतिरेकध्वनिरेव कवेरभिप्रेत इति स्फुटीभवति । 'सवेत्तु कतरत्सुखस्पर्शम्' अनेन मत्परीक्षणं चाटूक्तिरिति कदाचन न विश्वास्यं परमयं तटस्थ उभयोः करस्पर्शेन तारतम्यं परीक्षमाणो निर्णेष्यतीति 'सः' पदोद्वलितेन ध्वन्यते इति मार्मिकैराकलनीयम् । 'नायकप्रलोभनाय सखी नायिकामुखं वर्णयतीति' गङ्गाधरः । तत्र 'सुतनु' इत्यामन्त्रणसमन्वये कस्योक्तिरुचितेति भामिकैर्विमृश्यम् ।
सीधुपानेनोपारूढमदा प्रमदा मानेपि मृदुर्भवतीति मानिनीमानापनोदनोपायं नागरिकः स्वसुहृदमाह -
माणोसहं व पिइ पिआइ माणंसिणीअ दइअस्स । करसंडव लिउद्धाणणाइ महराइ गण्डूसो || ७० ॥ [ मानौषधमिव पीयते प्रियया मनस्विन्या दयितत्र । करसंपुटवल तोर्ध्वाननया मदिराया गण्डूषः ॥ ] करसंपुटवलितोद्धननया प्रियया मनखिन्या । मानौषधमिव मदिरागण्डूषः पीयते प्रियतमस्य ॥ ७० ॥
प्रियस्य करसंपुटेन वलितं ग्रहणपुरस्सरमुन्नमितम्, अत एव ऊर्द्धमाननं यस्याः । अनेन अनिच्छन्त्या अपि सीधुपानार्थं प्रसह्याभिमुखीकरणं सूच्यते, तेन नायिकामानवैमुख्यं व्यज्यते । मनखिन्या मानदानोन्नतमनसा मानिन्येत्यर्थः । प्रियया प्रियतमस्य मदिरागण्डूषः ( आकुञ्चितवदने पूरिता मदिरा ) मानापनयनौषधमिव पीयत इत्यर्थः । औषधं यथा मृदुप्रकृतिभिर्बलात्कथंचित्पीयते तथा मानवैमुख्येन अनिच्छन्त्या, अतएव प्रियस्य करसंपुटेन बलादूवकृताननया दयितया मुखसमीपानीतदयितमुखेनावर्जितः सीधुगण्डूषः पीयत इति भावः । तथा च - तत्समये बलादावर्जितापि मदिरा शीघ्रमेव मानिनीमावर्जयतीति सिद्धयोगोयमिति नागरिकेण सुहृदं प्रत्यभिव्यज्यते ।
नायकोत्कण्ठासंवर्द्धनार्थं दूती नायिकायाः सौन्दर्यातिशयमाह -
कहँ सा णिव्वणिजइ जीअ जहा लोइअम्मि अङ्गम्म । दिट्ठी दुव्वलगाई व्व पङ्कपडिआ ण उत्तरइ ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org