SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । [विज्ञानगुणमहाघे पुरुषे द्वेष्यत्वमपि रमणीयम् । ___ जननिन्दिते पुनर्जने प्रियत्वेनापि लज्जामहे ॥] विज्ञानगुणमहार्धे पुरुषे द्वेष्यत्वमपि हि रमणीयम् । लज्जामहे प्रियत्वेनापि जने जनविनिन्दिते नूनम् ॥ ६७ ॥ विज्ञानगुणमहाघे विज्ञतागुणेन परमादरणीये । जनविनिन्दिते जने प्रियत्वेनापि अनुकूलत्वेनापि लज्जामहे । आनुकूल्यप्रदर्शनेनापि लज्जामहे किं पुनरनुरागस्थापनेनेति विरागातिशयो ध्वन्यते । 'विदग्धं प्रति साभिलाषा कापि खभर्तरि वैराग्यं सूचयन्ती आह' इति गङ्गाधरावतरणम् । पीनोत्तुङ्गकुचां कामपि कामिनीमचिरेणैव कालेन पतितकुचामालोक्य कश्चित्सहृदयो वयस्यमाह कहँ णाम तीअ तह सो सहावगुरुओ वि थणहरो पडिओ। अहवा महिलाण चिरं को वि ण हिअअम्मि संठाइ ॥ ६८॥ [कथं नाम तस्यास्तथा स स्वभावगुरुकोऽपि स्तनभरः पतितः। अथवा महिलानां चिरं कोऽपि न हृदये संतिष्ठते ॥] कथमिव तस्याः स तथा स्वभावगुरुकोपि कुचभरः पतितः। अथवा महिलानां हृदि न चिरं संतिष्ठते कोपि ॥ ६८॥ स्वभावेन गुरुकः उत्तुङ्गः, पक्षे निसर्गेण गौरवभाजनम् । स्वयं विचार्य उत्तररूपेण स्वयमेवाह-'अथवा महिलानां हृदि कोपि चिरं न संतिष्ठते' इति । अनेन सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासेन 'निसर्गगौरवशाल्यपि पुरुषः स्त्रीणां हृदि स्वल्पकालमेवावकाशं लभते किं पुनः साधारणः' इति स्त्रीणामस्थिरप्रेमता अभिव्यज्यते । तथा स्वभावगुरुक इत्यत्र तथेतिनिर्देशेन स्तनयोरनन्यसाधारणो निबिडतोच्चतादिगुणः परामृश्यते, तेन तयोः पूर्वमतितुङ्गता निबिडता चासीदिति ध्वन्यते। वसनाञ्चलेन बालातपं वारयन्तीं प्रियतमा प्रति प्रियश्चाटूक्तिविधया आह सुअणु वअणं छिवन्तं सूरं मा साउलीअ वारेहि । एअस्स पङ्कअस्स अ जाणउ कअरं सुहप्फंसम् ।। ६९ ॥ [सुतनु वदनं स्पृशन्तं सूर्य मा वस्त्राञ्चलेन वारय । एतस्य पङ्कजस्य च जानातु कतरत्सुखस्पर्शम् ॥] सुतनु वदनं स्पृशन्तं सूर्यं वसनाञ्चलेन वारय मा। एतस्य पङ्कजस्य च स वेत्तु कतरत्सुखस्पर्शम् ॥ ६९॥ 'साउली'ति वस्त्राञ्चलवाचको देशी । 'साउली' इत्यस्य साकुलीति च्छाया, साकुलीति च पल्लविकाविषये वर्तते । तथा च 'पल्लवच्छत्रिकया वदनं मा वारय' इत्यर्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy