________________
३ शतकम्] संस्कृतगाथासप्तशती।
१३३ अनुवर्तनमिह कुर्वन्द्वेष्येपि जने ह्यभिन्नमुखरागः।
आत्मवशोपि च सुजनः कुलीनतायाः परवशोलम् ॥६५॥ द्वेष्येपि जने अभिन्नमुखरागः सन् , न भिन्नः परिवर्तितः स्नेहदाक्षिण्यजनितो मुखप्रसादो येनैवंभूतः सन् । मुखरागे किञ्चिदपि परिवर्तनं न जानीयादनुवर्तनीयो जनस्तथा अनुवर्तनं कुर्वन् । अभिन्नमुखराग इत्यनेन द्वेष्यतया तं प्रति स्नेहाभावेपि बाह्या मुखवर्णपरावृत्तिन भवेदिति सूच्यते । आत्मवशोपि उच्चाशयतया पारवश्यमवधीरय
खतन्त्रोपि सुजनः कुलीनतायाः सत्कुलप्रसूततायाः, आभिजात्यस्येत्यर्थः। अलं भूयस्तरां परवशः । आत्मवशोपि परवश इति विरोधालङ्कारेण 'पूर्वसुभगानुवर्तनमनभीष्ट, मपि दाक्षिण्यानुगतया कुलीनतया करोति न स्नेहेन अतएव न त्वया विमनायितव्यम्' इति नवीनां प्रति ध्वन्यते ।
आभिजात्येन कोपेपि प्रियं प्रत्यादरं प्रदर्शयन्त्या नायिकाया मानमज्ञात्वा नेयं विजानातीति भ्रान्तिवशादन्यवनितासु प्रसज्यन्तं दुर्विदग्धं शिक्षयन्ती काचिज्जरद्वधूराह
अणुदिअहवाटिआअरविण्णाणगुणेहिँ जणिअमाहप्पो । पुत्तअ अहिआअजणो विरजमाणो वि दुल्लक्खो ॥६६॥ [अनुदिवसवर्धितादरविज्ञानगुणैर्जनितमाहात्म्यः ।
पुत्रकाभिजातजनो विरज्यमानोऽपि दुर्लक्ष्यः ॥] अनुदिवसवर्द्धितादरविज्ञानगुणैर्जनितमाहात्म्यः ।
अभिजातजनः पुत्रक विरज्यमानोपि दुर्लक्ष्यः ॥६६॥ हे पुत्रक ! अनेन-नाधुना जानासि विदग्धवनिताव्यवहारान् , शिक्षस्वेदानीमिति खस्यानुभवित्वं द्योत्यते । अनुदिवसं वर्द्धित आदरो यैरेवंभूतैर्विज्ञानप्रमुखैर्गुणैः । जनितं माहात्म्यं महत्त्वं यस्यैतादृशः । प्रतिदिनमादरं प्रदर्शयद्भिर्विज्ञतादिगुणैः स्थापितनिजमहत्त्व इत्यर्थः । एवंभूतः कुलीनजनो विरज्यमानोपि दुर्लक्ष्यः । तथा च-परमविदग्धा सेयं तवान्यवनितासु प्रसक्तिं ज्ञात्वा विरज्यमानापि कुलजात्वेन प्रत्यहमादरातिशयं प्रदर्शयति, त्वं च नेदं विजानासि । अहो तेऽपाटवमिति पुत्रकपदसहकारेण ध्वन्यते । दुर्लक्ष्य इत्यनेन कठिनतया प्रत्येयत्वं सूच्यते । तेन च-सूक्ष्मतयावलोकनेन लक्षणीयमपि अविदग्धतया न त्वमज्ञासीरिति व्यज्यते । विरज्यमान इति वर्तमानार्थकशानचा 'तव प्रणयवैमुख्येन जनिता अस्या विरक्ति धुनापि पूर्णतया दृढीभूता' इति सूच्यते । एवं च अद्यावधि कृतमपराधं प्रणिपातादिना प्रसाद्य प्रमार्जयेति ध्वन्यते । लोकापवादभाजने कस्मिंश्चिज्जने बलादनुरागप्रदर्शनार्थमागृह्णतीं दूी काचिदाह
विण्णाणगुणमहग्घे पुरिसे वेसत्तणं पि रमणिजम् । जणणिन्दिए उण जणे पिअत्तणेणावि लजामो ॥६७ ॥ सं. गा. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org