________________
१३२
नानामाहार्यगुणाधानं न चिरकालस्थायीति काचिदन्यापदेशेनाह" इत्यवतरणं 'संकेतस्थाने जनावस्थितिसूचनेनामिसारिकां निवारयन्त्या दूत्या इयमुक्तिरिति केचित्' इत्युपसंहारश्च गङ्गाधरटीकायाम् ।
'सखि अत्याकृष्टेन मानेन दयितो विरज्येदत एव परिहर सांप्रतं मानम्, अलमेताबता' इति सखीभिर्बहुबोधिताया अप्याग्रहिलाया नायिकाया रात्रिवृत्तान्तं निभृतमनुसंधायागता सखी रहस्यप्रविष्टया मातुलान्या पृष्टा मानकलहे सख्या विजयमाह -
अज म्मि हासिआ मामि तेण पाएस तह पडन्तेण । तीए वि जलन्ति दीववत्तिमन्भुण्ण अन्तीए ॥ ६४ ॥
[ अद्यास्मि हासिता मातुलानि तेन पादयोस्तथा पतता । तयापि ज्वलन्तीं दीपवर्तिमभ्युत्तेजयन्त्या ॥ ]
मातुलि तथा निपतता पदयोरद्यास्मि हासिता तेन । दीपकदशां ज्वलन्तीं तया किलाभ्युन्नयन्त्या च ॥ ६४ ॥
हे मातुलानि ! अद्य तथा तादृक्प्रकारेण तस्याः पादयोः पतता तेन, 'उज्वलप्रकाशे सम्यक्पश्याधुना मत्सौभाग्यम्' इति गर्वेण मत्प्रदर्शनार्थं प्रज्वलन्तीमपि दीपदशां दीपकवर्तमुत्तेजयन्त्या तया च हासितास्मीत्यर्थः । तथेति पादप्रणामप्रकारं प्रतीङ्गितम्, ततश्च नायकस्य तत्समयेऽपराधस्वीकार संकोचसूचिका पुनः संगमोत्कण्ठालौल्येन परवशतया अनुनयप्रवृत्तिपिशुना च विलक्षणा भावभङ्गी सूच्यते । तेनानुनये नायकस्य दैन्यातिशयो ध्वन्यते । दिवा तथादृढतां प्रदर्शयतस्तस्य रात्रौ तादृशं विचित्रं दैन्यं तस्याश्च तद्दर्शनाय तादृशीं दीपोत्तेजनचेष्ठां च दृष्ट्वा मम हासो जात इत्यर्थः । अत्र 'अन्येपि मम सौभाग्यं पश्यन्तु' इति बुद्ध्या दीपोत्तेजनं कुर्वत्या इति गङ्गाधरोक्तिर्विचारणीयैव । निशि विश्रब्धं शयनगृहमधिवसतोरनयोः कथं नामान्यजनसंभवः ? तस्मात्कपाटरन्ध्रादिद्वारेण निभृतं पश्यन्तीं सखीमनुसंधायैव दीपोत्तेजनमिति बोध्यम् । किञ्च 'पतिं प्रत्यनादरं दृष्ट्वा हासो जात:' इत्यपि नोचिता तदुक्तिः । दीपोत्तेजनेन पश्य मयि कियदनुरक्तो वल्लभः' इति खसौभाग्यप्रदर्शने आग्रहो न पत्यनादरसूचने । मान - पतिकृतपादप्रणामादिषु अनुरागस्यैव विजृम्भणेनाऽनादर कथाया एवानुदयात् ।
पूर्वसुभगामनुवर्तमानं प्रियं दृष्ट्वा निजसौभाग्य मबहुमन्यमानां नवसुभगां सान्त्वयितुं सखी सुजनखभावमाह -
अणुवत्तणं कुणन्तो वेसे वि जणे अहिष्णमुहराओ । अप्पवसो वि हु सुअणो परव्त्रसो आहिआईए ॥ ६५ ॥
[ अनुवर्तनं कुर्वन्द्वेषयेऽपि जनेऽभिन्नमुखरागः । आत्मवशोऽपि खलु सुजनः परवशः कुलीनतायाः ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org