________________
३ शतकम् ] संस्कृतगाथासप्तशती। . १३१ नायकं गमनायोत्कण्ठयितुं दूती नायिकाया अनुरागातिशयमाह
सा तुह कएण बालअ अणिसं घरदारतोरणणिसण्णा । ओससई वन्दणमालिअ व्व दिअहं विअ वराई ॥६२॥ [सा तव कृतेन बालकानिशं गृहद्वारतोरणनिषण्णा ।
अवशुष्यति वन्दनमालिकेव दिवसमेव वराकी ॥] सा तव कृतेन बालक सततगृहद्वारतोरणनिषण्णा ।
अवशुष्यति हि वराकी वन्दनमालेव दिवसमेव बत ॥ ६२॥ विरहवेदनानभिज्ञत्वाद् हे बालककल्प । वन्दनमालेव सततं निरन्तरं गृहद्वारस्य तोरणे उपरिदेशे निषण्णा । सततमित्यनेन 'न जाने कस्मिन्क्षणे स आयायात्'. इति उत्कण्ठातिशयो द्योत्यते। सा वराकी तव कृतेन बत दिवसमेव समस्तं दिनमभिव्याप्यैव शुष्यति । दिवसमित्यत्यन्तसंयोगेन शोषस्य दिनावसानपर्यन्तभावितयाऽतिशयो व्यज्यते । शुष्यतीति वर्तमानार्थकलटा 'त्वत्प्रतीक्षाहेतुकः शोषो न तस्याः पूर्यते' इति सूचनया प्रतिदिनं समस्तदिनव्यापी प्रतीक्षाक्लेशो ध्वन्यते । अत एव यदि 'अवशुष्यत्यनुदिवसं वन्दनमालेव बत वराकीयम्' इति पाठोभविष्यत्तर्हि वरम् । वन्दनमालेव शुष्यतीत्युपमया तोरणे यथा वन्दनमाला अविचलभावेन परेच्छया आगन्तुकस्यागमनं प्रतीक्षमाणा तिष्ठति, तदनागमने च मुधा शुष्यति, तथा सापि त्वद्गतचित्ता निश्चेष्टमवतिष्ठत इति नायिकाया अनुरागातिशयो द्योत्यते। तथा चैवं त्वय्यनुरक्तामपि तां तत्प्रणयगाम्भीर्यापरिज्ञानान्न बहु मन्यसे, इत्युपालम्भोपबृंहितं द्रुतगमनाय नायकस्योत्तेजनं ध्वन्यते।
कपटानुरागशालिनं त्वामासाद्याहं वञ्चितास्मीति नायकमुपालभमानाऽन्यापदेशेन काचिदाह
हसि सहत्थतालं सुक्खवडं उवगएहिं पहिएहिं । पत्तअफलाण सरिसे उड्डीणे सूअविन्दम्मि ॥ ६३ ॥
[हसितं सहस्ततालं शुष्कवटमुपगतैः पथिकैः । __पत्रफलानां सदृशे उड्डीने शुकवृन्दे ॥] हसितं सहस्ततालं विशुष्कवटमुपगतैः पथिकैः।
पत्रफलानां सदृशे शुकवृन्दे सभयमुड्डीने ॥ ६३॥ पत्रफलाढ्योयं वृक्ष इति बुद्ध्या विश्रमार्थ शुष्कवटवृक्षमुपगतैः पथिकैः पत्रफलानां सदृशे शुकवृन्दे मनुष्यागमनेन सभयमुड्डीने सति सहस्ततालं यथा स्यात्तथा तालिकाः प्रदाय साश्चर्यकौतुकं हसितमित्यर्थः । शुकानां पक्षावृतं हरितशरीरं पत्रसदृशं रक्ताश्चञ्चवश्च फलसदृश्य इति भावः । तथा च तव कृत्रिममनुरागं वीक्ष्य त्वयि विश्वासमकरवमिदानीं स तवानुरागो दागेव व्यपगत इति नायिकोपालम्भो ध्वन्यते । “सहजगुणही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org