________________
१३०
काव्यमाला।
चित्तक्षोभजननात् । अनेन सपत्नीबाहुल्येपि 'एतत्स्तनसौन्दर्यमहिना त्वमेव सर्वातिशायिनी स्याः, तत्सन्तु काममन्याः कान्तास्त्वं किमिति नानुकम्पसे' इत्यात्माभिप्रायो व्यज्यते । लावण्यस्य घटौ, सौन्दर्यातिशयात् । अनङ्गरूपगजस्य कुम्भौ मूर्द्धाशौ । गजकुम्भस्थलं यथा निबिडं भवति तदभेदेन स्तनयोः काठिन्यं व्यज्यते । किञ्च कामोपि त्वस्कुचसौन्दर्यं मूर्धा वहति किं पुनरन्य इत्यनयोर्महिमातिशयो व्यज्यते । मन्युपुऔ, लावण्यघटौ, गजकुम्भौ, एमिस्त्रिभी रूपणैः क्रमशः कुचयोरुत्तुङ्गत्वं महत्त्वं काठिन्यं च द्योत्यते । पुरुषशतेन हृदये मनसि विधृतौ अभिलषितौ। अनेन सर्वकामुकजनाकर्षकत्वं सूच्यते। तथा चाहमेतौ दृष्ट्वा यदि एतल्लाभायाभिलाषं प्रकाशयामि तर्हि न मे दोष इत्यभिव्यज्यते । एवंविधौ स्तनौ सगर्वा त्वं किमिति वहसि । यावदनयोरनुरूपे जने नोपयोगस्तावत्तव गर्वो वृथेति भावः । तथा च एतयोर्महत्त्ववेदिनि मयि किमिति नानुकम्पस इति ध्वन्यते । पूर्वार्द्ध मन्युपुञ्जादीनां विशेष्यानाकलनदशायां रूपकत्वेपि 'स्तनौ' इति विशेष्यावबोधे सति गम्योत्प्रेक्षेवेति मन्मतम् । अत्र 'थणन्ती' इति मूलं 'स्तनन्तीति तच्छाया गङ्गाधरेणोपवर्णिता विचारणीयैव । टन वन शब्दे, स्तन गदी देवशब्दे, अनयोर्द्वयोरपि धात्वोरत्र नोपयोगः । 'शब्दं कुर्वती त्वं किमिति स्तनौ वहसि' अत्र शब्दायमानत्वं स्तनवहनं च द्वे अपि अखरसे एवेति न परोक्षं परीक्षकाणाम्। तस्मात् गर्वार्थकप्राकृतथुणघातोर्निष्पन्नोत्र 'थुणन्ती' शब्द एवेति मदमिप्रायः । 'थुण्णः दृप्तः' इति तद्धातुनिष्पन्नः शब्दो देशीनाममालायामालोक्यते । ___ कस्यचित्कृते प्रतिकूलमपि किञ्चित् कस्यचित्कृतेऽनुकूलं भवतीति निदर्शयन्सहृदय आह
घरिणिघणत्थणपेल्लणसुहेल्लिपडिअस्स होन्तपहिअस्स । अवसउणङ्गारअवारविहिदिअहा सुहावेन्ति ॥ ६१॥ [गृहिणीधनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य ।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति ॥] गृहिणीधनकुचपीडनसुखकेलिगतस्य भाविपथिकस्य ।
सुखयन्ति चापशकुनाङ्गारकवारान्यविष्टिदिवसाश्च ॥ ६१॥ गृहिण्याः कठिनकुचयोर्निष्पीडनसुखकेलिपतितस्य भविष्यत्पथिकस्य यात्रां करिष्यत इत्यर्थः । अपशकुनानि अङ्गारकवाराणि अन्ये विष्टिदिवसाश्च सुखयन्ति । विष्टिर्भद्रा । अपशकुनादिप्रतिबन्धेन प्रियतमाविरहकारिणी यात्रा न भवतीति भावः । विरुद्धात्कार्यसंपत्तिसिद्धा पञ्चमी विभावना, अयत्नं वाञ्छितसिद्ध्या प्रहर्षणं च । आभ्यामलङ्काराभ्यां प्रियासङ्गसुखवश्यस्य नायकस्य प्रवासरूपक्रियायामालस्यं व्यज्यते । उक्तं च स० कण्ठाभरणे-'क्रियाविद्वेष आलस्यं सुखसंविन्मदादिभिः' । अनेन चालस्यव्यभिचारिणा तत्सामयिकचेष्टारूपानुभावसहकारेण गृहिणीरूपालम्वनगताया रतेः परिपुष्टिरिति कण्ठाभरणे स्पष्टम् । तत्र हि 'पेलणसुखे णिवडिअस्स' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org