________________
३ शतकम् ] संस्कृतगाथासप्तशती।
१२९ - निजनिर्मायतां सूचयन्ती सहैव नर्तनकर्मीणां खदुहितरं प्रति तं सामिलापं कुर्वती च वृद्धा वेश्यामाता आह
मासपसूअं छम्मासगन्भिणि एकदिअहजरिअं च । रङ्गुत्तिणं च पिकं पुत्तअ कामन्तओ होहि ॥ ५९ ॥ [मासप्रसूतां षण्मासगर्भिणीमेकदिवसज्वरितां च ।
रङ्गोत्तीर्णां च प्रियां पुत्रक कामयमानो भव ॥] मासकसूतां दिवसज्वरिणी षण्मासगर्भिणी चापि।।
रङ्गोत्तीर्णी पुत्रक कामयमानः प्रियामेधि ॥ ५९॥ एकमासप्रसूताम् , एकदिवसज्वरिताम् , षण्मासिकगर्भधारिणीम् , नर्तनं कृत्वा रङ्गशालात आगतां च प्रियां कामयमानो भव । पुत्रकेत्यामन्त्रणेन स्नेहभाजनतया गुह्यमपि त्वत्तो न गोपनीयमियभिव्यज्यते । अथवा नववयस्को बहुधोपदेशसापेक्षो भवानत एव त्वां किञ्चिद् गुह्यमुपदिशामीति वा । एवंविधाः सुरतकर्मणि सुखसाध्या भवन्ति, प्रसन्नाः सुभृशमनुरज्यन्ति, आनन्दविह्वलाश्च महत्सुरतसुखं प्रसुवत इति वेश्याभिरधिकं निह्नवनीयमप्यहं ते प्रकाशयामीति पक्षपातो ध्वन्यते। 'नृत्यादिव्यग्रामेनां किश्चित्प्रतीक्षमाणोपि विलम्बेन नोत्ताम्य, यतस्त्वत्सुखायैवेदम्' इति खप्रयोजनसाधनध्वनिमपि वृद्धा न व्यस्मार्षीदिति सहृदयैर्बोध्यम् । मासप्रसूतादीनां खल्पसाध्यत्वं प्रोकं कामशास्त्रे । यथा ह्यनगरङ्गम्
'रङ्गाद्विश्रान्तदेहा चिरविरहवती मासमात्रप्रसूता
गर्भालस्या च नव्यप्रिययुततनुका त्यक्तमानप्रसङ्गा । स्नाता पुष्पावसाने नवरतिसमये मेघकाले वसन्ते
प्रायः संपन्नरागा मृगशिशुनयना स्वल्पसाध्या रते स्यात् ॥' 'रम्याणां तत्तद्विशेषप्राप्त्या रम्यतातिशयो भवतीति प्रतिपादयन्ती कुट्टनी भुजङ्गं नर्तकी खदुहितरं प्रति साभिलाषं कर्तुमाह' इति गङ्गाधरः। उत्तुङ्गपीनपयोधरां काञ्चन नायिका प्रति निजाभिलाषं प्रकाशयन्कश्चित्सहृदय आह
पडिवक्खमण्णुपुञ्जे लावण्णउडे अणङ्गगअकुम्भे । पुरिससअहिअअधरिए कीस थणन्ती थणे वहसि ॥ ६॥ [प्रतिपक्षमन्युपुजी लावण्यकुटावनङ्गगजकुम्भौ ।
पुरुषशतहृदयकृतौ किमिति स्तनन्ती स्तनौ वहसि ॥] प्रतिपक्षमन्युपुऔ लावण्यघटावनङ्गगजकुम्भौ।
पुरुषशतहृदयविधृतौ स्तनौ स्तनन्ती (सगर्वा) किमिति वहसि ।। प्रतिपक्षस्य सपत्नीजनस्य क्रोधजनितोपतापपुजौ, प्रियप्रणयेावशानां सपत्नीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org