SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १२८ काव्यमाला। हसूचकोत्तानप्रसारिताङ्गुलेर्हस्तस्याभिनयसंनिभेन खसंनिवेशेन-एतावन्मात्रौ सुन्दरौ स्तनौ यस्या ईदृशीति तरुणेभ्यो हालिकवधूस्तनपरिणाहं शंसति कथयतीत्यर्थः। हलिका वधूरित्यनेन लाबण्यवत्यास्तस्या अननुरूपस्तत्पतिहेलवाहनादिकर्मणा प्रायो बहिरेव तिष्ठतीति तत्सौलभ्यं द्योत्यते । तरुणेभ्य इति साधारणनिर्देशेन 'तरुणास्तल्लाभलालसया तदवसरप्रतीक्षायां भ्राम्यन्त्येव न पुनरयावधि केनापि सा संगतेति यावन्नासौ केनचियूना वशी क्रियते तावत्त्वरितमेनामनुसर' इति नागरिकं प्रत्यभिव्यज्यते । उत्तानप्रसारि. ताङ्गुलिहस्तसंनिवेशेन वस्त्वन्तरपरिणाहप्रतिबिम्बनं लोकप्रसिद्धं तदिहाप्यभिनयरूपेण जातमित्यभिनय एवालङ्कार इति स० कण्ठाभरणम् । “गुप्त्यर्थ निवेशितोपि खलः प्रत्युत रहस्यमेव प्रकाशयतीति प्रदर्शयन्नागरिकः सहचरमाह" इति गङ्गाधरः।। धनिकभुजङ्गं साभिलाषीकर्तु व्याजेन दुहितुर्घनस्तनभारं प्रशंसन्ती, शीघ्रानयनाथ भुजङ्गेनोक्ता कुट्टनी तमाह गअकलहकुम्भसंणिहघणपीणणिरन्तरेहिँ तुङ्गेहिं । उस्ससिउं पि ण तीरइ किं उण गन्तुं हअथणेहिं ॥५८ ॥ [गजकलभकुम्भसंनिभघनपीननिरन्तराभ्यां तुङ्गाभ्याम् । ___ उच्चसितुमपि न तीरयति किं पुनर्गन्तुं हतस्तनाभ्याम् ॥] गजकलभकुम्भसंनिभघनपीननिरन्तराभितुङ्गाभ्याम् । तीरयति नोच्छसितुमपि हतस्तनाभ्यां पुनस्तु गन्तुं किम् ॥५॥ गज इव प्रौढः कलभो गजकलभस्तत्कुम्भसंनिभौ अत एव घनपीनौ निबिडस्थूलौ, एवं निरन्तरौ पीनतया परस्परव्यवधानशून्यौ च अभितुङ्गौ च कठोरतया अग्रोत्थितौ च यौ ताभ्याम् । हतस्तनाभ्यां स्तनहतकाभ्यामित्यर्थः । उच्छृसितुमपि न तीरयति न पारयति (शक्नोति), पुनर्गन्तुं तु किं पारयेदित्यर्थः । अत्र तुङ्गपदेनैव स्तनस्थूलताप्रतीतो सत्यां पुनः 'गजकुंभसंनिभ-पीन-निरन्तरादिपदैविशेषो द्योत्यते । प्रौढकरिशावककुम्भसादृश्येन न केवलं पीनतैव किन्तु तादृकलभस्य यथा कुम्भः संहतावयवतया कठिनो भवति तथा कठिनौ । अत एव समासे 'गजकलभकुम्भसंनिभौ अत एव घनपीनौ' इति पूर्व विग्रहो दर्शितः। यौ किल अतिपीनतया निरन्तरौ भवतस्तो गौरवेण कदाचिनतौ स्यातामिति तन्निवारणार्थ पुनर्विशेषणम् 'अभितुङ्गौ' इति । एतादृग्घनपीनतायामपि अभितुङ्गौ अभिमुखं तुङ्गतया स्थिताविति गाथाकर्तुः प्रतिपदमाकूतं बोध्यम् । अनया च व्याजस्तुत्या 'घनयौवनेन मदालसा करिकुम्भस्तनी सौभाग्येन त्वयोपलब्धा न किल सरभसमवहेलया सामान्यवदाकारणीया, प्रत्युत सौन्दर्याधिदेवतेव त्वयैव संमुखमुपसर्पणीयेति वृद्धयाभिध्वन्यते । 'क्वचिद् गुणोपि दोषतां यातीति निदर्शयन्नागरिकोभिसारिकायाः सत्वराभिसारगमनविरोधिस्तनभार प्रत्युद्वेगेनेदमाहेति केचित् । बहोः कालात्पूर्णधनदानेन तोषयन्तं धनिकभुजङ्गं प्रति कामशास्त्ररहस्योपदेशेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy