________________
३ शतकम् ]
संस्कृतगाथासप्तशती।
१२७
नोचितं श्लाघाहेतुकं तत्कथनमित्युभयोः कार्ययोर्लाघवकरत्वमुचितमेवेत्यर्थः । यद्वा असम्पादितनायकसमागमामपि निजकार्य वर्णयन्तीं दूतीं प्रति नायिकाया उक्तिरियम् ।
केनचन यूना सह बद्धभावापि त्वं मत्तस्तदपलापमकार्षीरेतावत्कालम् , परमद्य मया लक्षितासीति सूचयन्ती वयःस्था काचित्काञ्चन सुन्दरीमाह
के तुङ्गथणुक्खित्तेण पुत्ति दारहिआ पलोएसि । उण्णामिअकलसणिवेसिअग्धकमलेण व मुहेण ॥ ५६ ॥ [कं तुङ्गस्तनोक्षिप्तेन पुत्रि द्वारस्थिता प्रलोकयसि ।
उन्नामितकलशनिवेशितार्घकमलेनेव मुखेन ॥] द्वारगता कं पश्यसि तुङ्गकुचोत्सङ्गसङ्गिना पुत्रि!
उन्नमितकलशनिहितार्धवारिजेनेव वदनेन ॥५६॥ दूरादवलोकनार्थं पूर्वकायस्योन्नामितत्वात् लोकेभ्यो दर्शनव्यग्रतागोपनार्थ मुखस्य क्षणमवनामितत्वाच तुङ्गस्तनोपरि स्थितेन । अत एव उन्नामितयोः कलशयोरुपरि निवेशितेन अर्घवारिजेनेव अर्घकमलेनेव मुखेन हे पुत्रि द्वारस्थिता सती कं प्रलोकयसि । यदि न तव केनापि सह मैत्री तर्हि उत्कण्ठाधिक्यवर्द्धितप्रश्वासतया दूरविलोकनतत्परतया चोन्नतकुच-पूर्वकाया लोकेभ्यो मार्गदर्शनव्यग्रतानिह्नवार्थमवनमितमुखी च द्वारि स्थिता कं वीक्षसे? द्वारस्थित्या च त्वं सुखसाध्यतया प्राप्तासि कामुकेन । तथा चोक्तमनगरङ्गे-'निर्लज्जा विधवा कलासु कुशला०' इत्यादि। अत एव विदितरहस्याया मत्तस्तव गोपनं व्यर्थमेवेति भावः। पुत्रीत्यामन्त्रणेन 'स्वमिदानीमेव प्रबुद्धासि, अहं तु बहोः कालादेतत्परिज्ञायानुभूय च परित्यक्तवती' इत्यात्मनोऽभिज्ञतातिशयो द्योत्यते । अत एव मा परिज्ञातमप्यर्थमपलप । त्वं मम वात्सल्यपात्रमसीति मत्तः साहाय्यमेव ते भावीति भूयानर्थो ध्वन्यते । 'द्वारस्थितिकलितशीलखण्डनां कुलजां कुट्टनी विश्वासयितुमाह' इति गङ्गाधरावतरणम् ।
स्थानेस्मिन् रूपगुणसंपन्नाप्यनधिकारिकरपतिता काचित्सुस्तनी सुलभेति नागरिक काचिदूती सूचयति
वइविवरणिग्गअदलो एरण्डो साहइ व्व तरुणाणम् । एत्थ घरे हलिअवहू एइहमेत्तत्थणी वसइ ॥ ५७ ।। [वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेभ्यः ।
अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति ॥] वृतिविवरनिर्गतच्छद् एरण्डः शंसतीव तरुणेभ्यः ।
हलिकवधू वनेस्मिन्नेतावन्मात्रसुस्तनी वसति ॥ ५७ ॥ ग्रामे गृहवृतिनिरन्ध्री करणार्थमेरण्डो रोप्यत इति ग्राम्याणां पद्धतिः । ततश्च गृहवृतिविवरात् निर्गतो बहिर्निष्क्रान्तश्छदः पल्लवो यस्य, ईदृश एरण्डवृक्षः । पयोधरातिपरिणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org