SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १२६ काव्यमाला। [तथा स्नुषया प्रलोकितो दरवलितार्धतारकं पथिकः। __ यथा वारितोऽपि गृहस्वामिना अलिन्दके सुप्तः ॥] स्नुषया तथाऽवलोकित ईषद्वलितार्द्धतारकं पथिकः । सुप्तो निभृतमलिन्दे गृहपतिना वारितोपि यथा ॥ ५४॥ ईषद्वलिताड़तारकं विभ्रमवशेन किञ्चिदुच्चलितम् अर्द्धतारकं यस्मिन्दर्शने यथा भव. ति तथा । तारकाया अक्षिकनीनिकाया अर्द्धमर्द्धतारकम् । कटाक्षपुरस्सरमवलोकनेन नायिकाया अभिलाषो व्यज्यते । अलिन्दे बहिरपार्श्वस्थे प्रकोष्ठे। गृहस्वामिनेत्यनेन गृहाधिकारिणो नायिकाश्वशुरस्य सत्तायामपि पथिको नयनशरविद्धतया न निशि निवासलोभं त्यक्तुं प्राभवदिति स्नुषावलोकनस्यात्यन्तमाकर्षकता सूच्यते । निभृतमित्यनेन निवारणाद्वहिनिष्क्रान्तोपि स्नुषावलोकनेनाऽनुमिततदभिलाषस्तत्समागमलालसया पुनरविज्ञातमागत्य सुप्त इति पथिकस्यौत्सुक्यातिशयो ध्वन्यत इति मच्छायायामाधिक्यम् । सुप्त इत्यत्र गृहान्निर्गत्य संगमाशया पुनः परावृत्तस्य शयनं बोधयितुमिष्टमिति शयनेन सकलाविज्ञातं तूष्णीं संवेशमात्रं ( न तु निद्रा) लक्ष्यते, तेन च नायिकासंगमामिलाषो ध्वन्यत इति विज्ञातमेव विज्ञानाम् । अलिन्दस्य शून्यतासत्तायामपि पथिलङ्घनपरिश्रान्तस्य पान्थस्य निवासवारणादनुभविना श्वशुरेण प्रतिषिद्धस्य पथिकस्य तरुणत्वं द्योत्यते । अत एव पूर्वमपि कदाचिदवलोकितपरसंगमां तुषां सकटाक्षमध्वगमवलोकयन्तीं वीक्ष्य स वारित इति नायिकायाः सुसाध्यत्वं ध्वन्यते । तथा चैवंविधविभ्रमवतीं सामिलाषां च किं नानुसरसीति नायकं प्रत्यभिव्यज्यते दूत्या । 'दर्शनमात्रेणैव विदग्धा भावमाविष्कुर्वन्ति लक्षयन्ति चेति दर्शयन्नागरिकः सहचरमाह' इति गङ्गाधरावतरणम् । न किल सुजनाः स्वमुखेन स्वगुणकीर्तनं प्रशंसन्तीति निजश्लाघनपरं कञ्चन शिक्षयितुं कश्चिद्विदग्धचर्यानिष्णात आह लहुअन्ति लहुं पुरिसं पव्वअमेत्तं पि दो वि कजाई । णिवरणमणिव्बूढे णिवूढे जं अणिव्वरणम् ॥ ५५ ॥ [लघयतो लघु पुरुषं पर्वतमानमपि द्वे अपि कार्ये । निर्वरणमनियूंढे नियूंढे यच्च निर्वरणम् ॥] शैलोन्नतमपि पुरुषं लघु विलघयतश्चिराय कार्ये द्वे । निर्वरणमनियूंढे नियूंढे यञ्च निर्वरणम् ॥ ५५॥ अनियूंढे अकृते कार्ये निर्वरणं निवेदनम् , आत्मगुणप्रकाशनार्थमिति भावः । नियूंढे कृते च कार्ये आत्मश्लाघार्थ यनिवेदनम्, एते द्वे अपि कार्ये शैलोन्नतमपि अत्यन्तगुरुकमपि पुरुष लघु शीघ्रं चिराय चिरकालार्थ लघयतो लघूकुरुतः । लघुशब्दात्तत्करोति तदाचष्ट इति णिच् । अकृतकार्यस्य व्यर्थमेव निवेदनम् , कृते च कार्ये खमुखेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy