________________
३ शतकम् ] संस्कृतगाथासप्तशती।
१२५ चन्द्रमुखि चन्द्रधवला, दीर्घा दीर्घाक्षीत्यादिरनुप्रासस्तु खयं वाचमनुधावतीति किं तत्र समीक्षापेक्षया ।
यथेष्टधनालामेनापरितुष्टायाः कस्याश्चन दूत्याः परिवादपैशुन्यमभिव्यञ्जयन्ती सखी खलचरितमाह
अउलीणो दोमुहओ ता महुरो भोअणं मुहे जाव । मुरओ व्व खलो जिण्णम्मि भोअणे विरसमारसइ ॥ ५३॥ [अकुलीनो द्विमुखस्तावन्मधुरो भोजनं मुखे यावत् ।
मुरज इव खलो जीर्णे भोजने विरसमारसति ॥] अकुलीनोऽथ द्विमुखस्तावन्मधुरोऽन्नमानने यावत् ।
जीणेऽन्ने तु मुरज इव पिशुनो बत विरसमारसति ॥ ५३ ॥ अकुलीनः असत्कुलजातः । समक्षपरोक्षयोर्वचनभेदेन द्विजिह्वतया द्विमुखः । पिशुनः खलो मुरज इव मृदङ्ग इव तावन्मधुरो यावन्मुखे अनं भोजनं भवति । मृदङ्गसादृश्येन-चूर्णलिप्तमुखत्वे मृदङ्गो ह्यन्यवाद्यान्यभिभूयापि यथा मधुरं रसति, तथैव भोजनादिसंतुष्टः खलस्तदवस्थायामन्यलोकापेक्षयाऽधिकप्रशंसाचाटुकृद्भवतीति खार्थमात्रमैत्रीरूपा क्षुद्रता व्यज्यते । भोजने जीर्णे तु विरसमप्रियम् आरसति जलति, निन्दतीत्यर्थः। एवम् , अकुलीनः को पृथिव्यां न लीनः, मृदङ्गस्य बन्धुरत्वेन आलवालीकृतवस्त्रोपर्यवस्थापनात् । द्विमुख उभयमुखः, उभयतो वाद्यढक्कासत्त्वात् । एवंविधो मुरजोपि यावन्मुखेऽन्नं पिष्टलेपो भवति तावदेव मधुरो नादेन श्रुतिसुखावहो भवति । पिष्टलेपे जीर्णे शुष्कतया समाहरणोचिते तु विरसं नीरसं रूक्षं यथा स्यात्तथा आरसतीत्यर्थः । आनने यावदन्नं तावन्मधुर इत्यत्र आनने इति सप्तम्या 'अन्नाननसंबन्धे सत्येव अर्थात् भुञ्जानदशायामेव स चाटूनि कुरुते' इत्यर्थसूचनेन मुरजोपमानस्य पिशुनस्य अत्यन्तं स्वार्थपरताभिव्यज्यते । अकुलीन इति पदेन 'सत्कुलजाताः न खार्थमात्रैकमित्राणि भवन्ति' इति सूच्यते। मत्कृतच्छायायामन्नपदं मुरजपक्षेपि भोजनपदापेक्षया कियदर्थसमर्पकमिति सहृदयहृदयमेव परीक्षकम् । 'दुजेनमैत्री न चिरकालस्थायिनीति सखी नायिका शिक्षयति' इति गङ्गाधरः । किं वा दुर्जनमुखपिण्डदानार्थ कुलटां शिक्षयन्त्याः कुट्टन्या इयमुक्तिरिति दुर्जनाथ पिण्डदानव्यवस्था कुर्वन्नवसरोचितमाह गङ्गाधर इति हृदयेन ब्रूमः।
तटस्थाः पथिका अपि तत्कटाक्षशरविद्धाः परिताम्यन्तीति कस्याश्चिदुपवर्णनया नायकमनः समाकर्षन्ती दूती आह
तह सोण्हाइ पुलइओ दरवलिअन्तद्धतार पहिओ। जह वारिओ वि घरसामिएण ओलिन्दए वसिओ ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org