________________
१२४
काव्यमाला ।
[सोऽर्थो यो हस्ते तन्मिन्नं यन्निरन्तरं व्यसने ।
तद्रूपं यत्र गुणास्तद्विज्ञानं यत्र धर्मः ॥] सोऽर्थो यो निजहस्ते तन्मित्रं यनिरन्तरं व्यसने ।
तद्रूपं यत्र गुणास्तद्विज्ञान च यत्र धर्मः स्यात् ॥ ५१ ॥ अर्थों धनम् । व्यसने विपदि यनिरन्तरम् आन्तर्येण व्यवधानेन शून्यं स्यात् । तच्च शरीरद्वारा मनोद्वारेति द्विधा । तथा च अव्यवधानेन सहचरं मनसा प्रवणं च यत्तन्मित्रमित्यर्थः। विज्ञानं लोकशास्त्रादिषु बहुज्ञता । एवं च केवलं बाह्यसौन्दर्यशालिनीमत एव रूपगर्वेण त्वयि तथा नानुरज्यन्तीं तां किं मुधाऽनुवर्तसे हृदयेन त्वदनुवर्तनादिगुणसंपन्नां बहु मन्यस्व मामित्यभिव्यज्यते । अन्योक्तिविधया एतदनुहारि रुचिरमाह आचार्यगोवर्द्धनः
'इह रूपमात्रसारे चित्रकृते कनककलारे । न रसो नापि च गन्धो मधुकरबन्धो मुधा भ्रमसि ॥' "भाविधनप्रत्याशया भुजङ्गे कृतानुरागां दुहितरं वारयन्ती वेश्यामाता धनादीनामुपादेयताप्रयोजकमाह" इति गङ्गाधरटीकावतरणम् ।
'प्रवासे कथमिव व्यत्येति स्म रजनिः' इति निशि विश्रम्भालापेषु प्रिययाऽनुयुक्तश्चिरप्रवासादागतः प्रियतमस्तामाह
चन्दमुहि चन्दधवला दीहा दीहच्छि तुह विओअम्मि । चउजामा सअजाम व्व जामिणी कहँ वि वोलीणा ॥५२॥ [चन्द्रमुखि चन्द्रधवला दीर्घा दीर्घाक्षि तव वियोगे।
चतुर्यामा शतयामेव यामिनी कथमप्यतिक्रान्ता ॥1 चन्द्रमुखि चन्द्रधवला दीर्घा दीर्घाक्षि तव विरहे।
कथमपि गमिता रजनी शतयामेव हि चतुर्यामा ॥५२॥ चन्द्रमुखीति संबोधनेन चन्द्रेणावदातायां रात्रौ चन्द्रमालोक्य त्वन्मुखं स्मृतमिति विरहे शतगुणितवेदनाधिक्यमभिव्यज्यते । पूर्वार्द्ध दीर्घति कथितेपि पुनः 'चतुर्यामा यामिनी शतयामेव कथमपि गमिता' इत्यनेन 'अधिकादधिकं रात्रेश्चत्वारः प्रहरा भवन्ति परमद्य किं शतं प्रहरा जाताः ?' इत्येवमविनिद्रं रात्र्यवसानप्रतीक्षया रजनीदैर्ध्यातिशयप्रतीते यकस्य वेदनातिशयो ध्वन्यते । कथमपीत्यनेन 'जीवितविरामात्पूर्व नासीन्निशावसानसंभावना, परं यथाकथंचिन्नीता' इति कष्टातिशयो ध्वन्यते । अतिक्रान्तेति परिवर्ते गमितेति ण्यन्तप्रयोगेण क्षणदापि मदर्थमक्षणदा वैरिणी रात्रिः किं स्वेच्छया गता ? बलान्मया कथंचिद् गमितेति विरहिणोऽसहनतातिशयो व्यज्यते । यदि तु प्रकृतिनियमानुसारं रात्रिः कथमपि गतेति मूलानुरोधस्तर्हि 'याता' इति पाठो बोध्यः। चतुर्यामा शतयामेव गतेत्युत्प्रेक्षया 'त्वद्विरहे रात्रैश्चत्वारो यामाः शतं जाताः' इति विरोधालङ्कारध्वनिरपि खत उपतिष्ठते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org