________________
संस्कृतगाथासप्तशती ।
अद्य मया गन्तव्यं घनान्धकारेपि तस्य सुभगस्य । आर्या निमीलिताक्षी पदपरिपाटीं गृहे कुरुते ॥ ४९ ॥
३ शतकम् ]
तस्य सुभगस्य सविधे इत्यर्थः । पदपरिपाटीं पादपरिचारणम् । अद्य मया गन्तव्य - मित्यनेन अनभ्यस्ततमः संचारा भाविकृष्णाभिसारिका सेयम् । अद्यैव निशि गन्तव्यं यतः स 'सुभगः', प्रियाप्रणयावलम्बनतया सौभाग्यशालीति न विलम्बावसरः । अत एव खल्पसमय एवाभ्याससिद्ध्यर्थं गृहे पदपरिपाटीकरणम्, एवं च नायिकाया मौग्ध्यमभिव्यज्यते । परिपाटीपदेन 'तमसि गमने उच्चावचपदनिक्षेपेण भूषणध्वनिसंभवान्मा भूत्प्रकटता' इति पदन्यासपाटवाभ्यासे सावधानता ध्वन्यते | आर्या उत्तममहिला | तथा च कौलीन्यभयेनाभिसार निह्नवार्थमति सतर्कताभिव्यज्यते । स्मरणादिना उद्दीप्तकामाया नायिकायाः प्रियतमानुरागसूचकोऽभिसरणचेष्टानुभावोयमिति स. कण्ठाभरणम् । भयत्नोपलब्ध आर्याच्छन्दः सिद्धिकृतो मुद्रालङ्कारोपि नात्र विस्मार्यः । ' नायिकानुरागं प्रकाशयन्त्या दूत्याः कामुकं प्रत्युक्तिरियमिति केचित्' इति गङ्गाधरटीका ।
कुपितान्नाय कायली कशङ्कया तमनभिसरन्तीं नायिकां काचिद्विदग्धा दूती सुजनचर्यामाह -
१२३
सुअणो ण कुप्प व्विअ अह कुप्पइ विप्पिअं ण चिन्ते । अह चिन्तेइ ण जम्पइ अह जम्पर लज्जिओ होइ ॥ ५० ॥ [ सुजनो न कुप्यत्येव अथ कुप्यति विप्रियं न चिन्तयति ।
अथ चिन्तयति न जल्पति अथ जल्पति लज्जितो भवति ॥ ] कुप्यत्येव न सुजनो यदि कुप्यति विप्रियं न चिन्तयति । यदि चिन्तयति न जल्पति यदि जल्पति लज्जितो भवति ॥५०॥
यदि विप्रियं चिन्तयति तथापि मुखान्न कथयति, अहमस्यैवमेवं करिष्यामीति विकत्थनस्य सुजनचर्याविप्रतीपत्वात्, फलोदयात्पूर्वं कार्य प्रकटनस्य नीतिबाह्यत्वाच्च । अथवा 'कृते प्रतिकृतन्यायेन विप्रियमस्य शिक्षार्थं कर्तव्यमेव, पुनर्जनसमक्षं किमित्येनमानमयामीति चिन्तयन्न जल्पतीति भावः । तेन सुजनस्य विचारगाम्भीर्यमभिव्यज्यते । यदि जल्पति रोषावेशत्रशान्मुखान्निःसारयति, तर्हि रोषापगमे निजस्खलितमनुसंधाय 'स्वयमपि तु जिह्वेति विबुधः' । “कृतविप्रियं प्रति प्रतिकूलाचरणप्रवृत्तस्य कस्यचिन्नि वारणाय कश्चित्सुजनचरित्रं वर्णयति" इति गङ्गाधरः ।
' रूपमात्रसारां तां किं बहु मन्यसे' इति सपत्नीमभिभूय निजगुणगणगौरवमभिव्यजयन्ती काचित्कान्तमाह
सो अत्थो जो हत्थे तं मित्तं जं णिरन्तरं वसणे । तं रूअं जत्थ गुणा तं विष्णाणं जहिं धम्मो ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org