________________
१२२
कृतमानां नायिकां दाक्षिण्येनानुनयन्कान्त आह
जिविअं असासअं विअ ण णिवत्तइ जोव्वणं अतिक्कन्तम् । दिहा दिअहिं समाण होन्ति किं णिधुरो लोओ ॥ ४७ ॥ [ जीवितमशाश्वतमेव न निवर्तते यौवनमतिक्रान्तम् ।
दिवसा दिवसैः समा न भवन्ति किं निष्ठुरो लोकः ॥ ] जीवितमशाश्वतं किल न च यौवनमपि निवर्ततेऽतीतम् । दिवसा दिवसैर्न समा भवन्ति, किं निष्ठुरो लोकः ॥ ४७ ॥
काव्यमाला |
जीवित स्थिरमिति 'किल' निश्चय एव । अतिक्रान्तं यौवनमपि न पुनरावर्तते । यौवनेऽनुभवनीयानि सुखानि पुनरग्रे दुर्लभानि भवेयुरिति निभृतं सूच्यते । दिवसा अपि समाना न भवन्ति । अग्रे संतानोत्पत्त्यादिना एषु दिनेष्विव भोगस्वच्छन्दता स्यान्न वेति द्योत्यते । एवंस्थितावपि लोकः किमिति सुखोपभोगादिकर्मणि निष्ठुरः, इति न प्रतीयत इत्यर्थः । एवं च ' याचमानस्य मे प्रार्थनया प्रसादानुगुणमाचर, मा किल रोषपरुषतया अग्रे स्मरणीय सुदुर्लभसुखानुभवादात्मानं च सहचरं च वञ्चय' इत्यभिव्यज्यते । 'कृतकलहयोर्दम्पत्योः प्रणयरोषभङ्गार्थं सखी आह' इति गङ्गाधरावतरणम् । पारदारिकविनियुज्यमानविभवं प्रियतमं काचिदसहमानतया सासूयमाह -
उप्पादव्वाण व खलाण को भाअणं खलो अ । पक्वाइँ विणिम्बफलाइँ णवर काहिँ खजन्ति ॥ ४८ ॥ [ उत्पादितद्रव्याणामपि खलानां को भाजनं खल एव । पक्कान्यपि निम्बफलानि केवलं काकैः खाद्यन्ते ॥ ]
अर्जितविभवानामपि खल एव हि भाजनं खलानां स्यात् । निम्बफलानि विपक्कान्यपि काकैरेव खाद्यन्ते ॥ ४८ ॥
उपार्जितं द्रव्यं यैस्तेषामपि खलानां भाजनं दानपात्रं खल एव स्यात् । मूले 'उपाजितद्रव्याणां खलानां भाजनं कः ?' खल एवेति प्रश्नोत्तररूपमिव, इह तु सरलमेवेति बोध्यम् । विपक्कान्यपीत्यपिना 'पक्कान्येव फलानि न सुजनोपयोगीनि तदा अपक्कानां तु का कथा, तथा च ' धनार्जने सत्यपि नास्मदादीनां तत्कृतं सौख्यं तदभावे तु किं वाच्यम्' इति दयितं प्रति गूढमाक्षेपोऽभिव्यज्यते ।
1
कस्याश्चिद् गृहवृत्तान्तमवलोक्य निजस्येङ्गितज्ञतां सूचयन्नागरिकः सुहृदमाह - अज मए गन्तव्यं घणन्धआरे वि तस्स सुहअस्स । अजा णिमीलिअच्छी पअपरिवार्डि घरे कुणइ ॥ ४९ ॥
[ अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य । आर्या निमीलिताक्षी पदपरिपार्टी गृहे करोति ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org