________________
३ शतकम् ] संस्कृतगाथासप्तशती । कार्यस्यानिष्पत्ती खदोषमपनयन्ती दूती नायिकामाह
देव्वम्मि पराहुत्ते पत्तिअ घडि पि विहडइ णराणम् । कजं वालुअवरणं व्व कहँ वि बन्धं विअ ण एइ ॥ ४५ ॥ [दैवे पराङ्मुखे प्रतीहि घटितमपि विघटते नराणाम् ।
कार्य वालुकावरण इव कथमपि बन्धमेव न ददाति ॥] दैवे प्रतीहि विमुखे घटितमपि च हन्त विघटते पुंसाम् ।
कार्य कथमपि बन्धं नैति यथा बालुकावरणः॥४५॥ दैवे परामुखे सति नराणां घटितमपि कार्य हन्त विघटते नश्यति, इति प्रतीहि विश्वसिहि । तत्र निदर्शनमाह-यथा वालुकावरणः वालुकाभिः कृतः प्राकारः कथमपि बन्धं नैति, तथा कार्य कथमपि बन्धं नैति, सिद्ध्यनुकूलं मार्ग नानुगच्छतीत्याशयः । तथा च दैवप्रातिकूल्यादेव कार्यं विघटितं न पुनर्मम कौशले काचित्रुटिरिति स्वस्यापाटवशङ्कापनयनमभिव्यज्यते। अत्र 'बन्धमेव न ददाति' इति च्छाया, तस्याश्च 'घटयितुमेव न शक्यते' इति गङ्गाधरकृता टीका च विचारणीयैव । 'एइ' इत्यस्य 'ददाति' इति च्छाया न स्यात् , नापि च 'देइ' इति कुहचित्पाठोऽवलोकितः।। ___ रहस्यप्रविष्टया मातुलान्या सह नदीनानाथ गतप्रत्यागता काचित्तत्रावलोकिते नायके निजमनःप्रसक्तिमाह
मामि हिअ व पीअं तेण जुआणेण मजमाणाए। ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअन्तेण ॥ ४६ ॥ [मातुलानि हृदयमिव पीतं तेन यूना मजन्त्याः ।
स्नानहरिद्राकटुकमनुस्रोतोजलं पिबता ॥] यूना तेन निपीतं मजन्त्या मातुलानि हृदयमिव ।
खानहरिद्राकटुकं पिबता किल जलमनुस्रोतः॥४६॥ हे मातुलानि ! मज्जन्त्याः स्नात्या मम स्नानहरिद्राकटुकम् । स्नानसमये उद्वर्तनाथ प्रयुक्तया हरिद्रया कटुकं जलम् । अनुस्रोतः जलप्रवाहानुगतं यथा स्यात्तथा । प्रवाहागतहरिद्राजलपाने नान्यलोकानां प्रेम प्रतीतं स्यादिति तथाकरणेन नायकनैपुण्यं सूच्यते । मय्यनुरक्ततया मदङ्गसङ्गबहुमानात्पिबता तेन यूना मम हृदयमिव पीतम् । तल्लावण्यदर्शनेन पूर्वमेव विवशीकृताया मम उद्वर्तनहरिद्राजलपानान्मयि प्रणयप्रकटनात्तेन हृदयमपहृतमिति भावः । प्रथमानुरागे लावण्यदर्शनेन स्नेहदर्शनेन चेत्युभयथा प्रेमप्रसक्तिराख्यायते, तत्र परस्योदाहरणमिति सरस्वतीकण्ठाभरणम् । अनेन "मातुलान्या पूर्वकथितसौन्दर्यादिगुणस्य" इति गङ्गाधरावतरणोक्तमपास्तम् । हृदयमिव पीतमित्युत्प्रेक्षया 'मम हृदयमिदानीं तदायत्तं तथा च तत्प्रायैव मम जीवनमतस्तदुपलम्भाय त्वरितं प्रयत्यताम्' इति ध्वन्यते ।
सं. गा. ११.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org