________________
१२०
काव्यमाला।
नायकस्यानीप्सितामपि गृहीतमानां सखीं बोधयितुं सखी आह
छाइ पहुस्स ललिअं पिआइ माणो खमा समत्थस्स । जाणन्तस्स अ भणि मोणं च अआणमाणस्स ॥४३॥ [शोभते प्रभोर्ललितं प्रियाया मानः क्षमा समर्थस्य ।
जानतश्च भणितं मौनं चाजानतः] ललितं प्रभोः प्रियाया मानो भाति क्षमा समर्थस्य ।
भणितं च जानतः किल मौनं चाजानतो नूनम् ॥ ४३॥ प्रभोः समर्थस्य स्वामिनो ललितं खेच्छाक्रीडितं भाति शोभते । प्रियाया मानः शोभते न तु अमनोनीततया अप्रियायाः। एवं भातीति सर्वत्र योज्यम् । अनेन च दीपकेन 'अप्रियायास्तव मानो दयितस्य कोपोद्दीपक एव भवेदतो न त्वया मानः कार्यः' इति सखीं प्रत्यभिव्यज्यते ।
मदनलेखेन प्रियं प्रत्यात्मवेदनां सूचयेति सख्योक्त्या दर्शनश्रवणादिना प्रथममेव प्ररूढनायकरागा काचिदाह
वेविरसिण्णकरङ्गुलिपरिग्गहक्खसिअलेहणीमग्गे । सोत्थि विअ ण समप्पइ पिअसहि लेहम्मि किं लिहिमो ४४
[वेपनशीलस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे। । स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः ॥] कम्प्रविन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे ।
खस्त्येव पूर्यते नो प्रियसखि लेखे लिखामः किम् ॥४४॥ कम्पमानाः खेदयुक्ताश्च याः कराडलयस्ताभिः परिग्रहणेन स्खलिता विस्रस्ता या लेखनी तस्याः मार्गे । वस्तीति प्रारम्भिकवर्णद्वयमेव न समाप्यते, आत्मवेदनादिकमन्यत् लेखे किं लिखाम इत्यर्थः । प्रियस्मरणेनाङ्गुलीषु कम्पस्वेदोदयात्तथाविधाङ्गुलिमध्यान्मुहर्विगलिताया लेखन्या लेखे स्वस्तिमात्रमपि लेखितुं न पारयामि किमन्यदिति भावः । स्मरणमात्रेण कम्पखदादिसात्त्विकभावोदयान्नायकं प्रति निरतिशयः प्रणयोभिव्यज्यते । एतव्याख्याने "स्विन्नाभिरङ्गुलिभिः परिग्रहेण स्खलिते लेखनीमार्गे खस्तीति न पूर्यते" इति गङ्गाधरोक्तिर्विचारणीयैव । स्विन्नाङ्गुलिद्वारा ग्रहणेन लेखनी स्खलति न पुनर्लेखनीमार्गः । किञ्च ‘मदनलेखं लिखेति सख्योक्ता प्रोषितभर्तृका आह' इत्यवतरणमपि नवीनमेव । पूर्वानुराग एव अप्राप्तनायकसमागमाया नायिकायाः शाकुन्तलादौ मदनलेखो दृष्टो न पुनः शतशः प्रियोपभुक्तायाः प्रोषितभर्तृकायाः । अत एव 'विप्रलम्भपरीष्टिषु लेखविधानेन प्रेमपरीक्षा' इत्यादिना पूर्वानुरागे लेखद्वारा नायिकायाः प्रेमावेदनप्रसङ्ग एवोदाहृता सेयं गाथा सरखतीकण्ठाभरण इति दिक् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org