________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
११९
पदेन दयितस्यैकान्तवशीकरणं सूच्यते । तेन च ' मत्तः सर्वथा तमाच्छिन्दन्ति' इति द्योत्यते । संस्कृते तु तथाशैल्यभावालुण्ठन्तीति प्रायुज्यत । तथा च कृतविश्वासाया मम व्यलीकमनुष्ठायापि मयैव सहेष्यां कुर्वतीनामासामसतीनां प्रलोभनाद्दयितं विमोच्याहं रक्षणीयेति सखीः प्रत्यभिव्यज्यते ।
कस्याश्चित्स्वल्पद्रव्यसाध्यतां सूचयितुं क्षुद्राणामल्पलाभेन गर्वशालितां नायकं प्रति प्रतिपादयति दूती -
अप्पत्तपत्तअं पाविऊण णवरङ्गअं हलिअसोहा । उअह तणुई ण माअइ रुन्दासु वि गामरच्छासु ॥ ४१ ॥ [ अप्राप्तप्राप्तं प्राप्य नवरङ्गकं हलिकस्नुषा । पश्यत तन्वी न माति विस्तीर्णास्वपि ग्रामरथ्यासु ॥ ] हलिकस्नुषा हि लब्ध्वा नवनवरङ्गकमलभ्यलाभमिदम् । पश्यत न माति बृहतीष्वपि तन्वी ग्रामरथ्यासु ॥ ४१ ॥
न लभ्यो लाभो यस्य तत् पूर्वं कदापि न प्राप्तमित्यर्थः । अप्राप्ता प्राप्तिर्यस्येति मूले । नवरङ्गकं कुसुम्भवस्त्रं नवं च तत् नवरङ्गकं च नवनवरङ्गकम् लब्ध्वा । स्वभावतस्तन्वी अपि विस्तीर्णाखपि ग्रामरथ्यासु न माति इति पश्यत । इदमिति प्रत्यक्ष प्रदर्शनेन स्ववचसो विश्वसनीयत्वं व्यज्यते । ग्रामरथ्याखित्यनेन हर्षातिशयाल्लोकानां पुरतो भ्रमन तत्प्रदर्शनोत्साहो ध्वन्यते । रथ्याविति बहुवचनेन ग्रामस्य सर्वरथ्यास्था लोकाः पश्यन्त्विति बुद्ध्या बहुरथ्याभ्रमणेन तदतिशयो योत्यते । स्नुषापदेन नवयौवनचाञ्चल्यसुलभो हर्ष प्रकाशनरभसो व्यज्यते । एवं च ग्रामरथ्याखपि न मातीत्यतिशयोक्त्या असाधारणहर्षातिशय सहकृतो गर्वोभिव्यज्यते ।
प्रियप्रत्यक्षदृष्टमप्यपराधं वाक्चातुर्येणापनीतवतीं सखीं काचित्ससंतोषबहुमानमाहआक्खेव पिअजम्पिआइँ पर हिअअणिव्वुदिअराई । विरलो खु जाणइ जणो उप्पण्णे जम्पिअव्वाई ॥ ४२ ॥ [ वाक्क्षेपकाणि प्रियजल्पितानि परहृदयनिर्वृतिकराणि । विरलः खलु जानाति जन उत्पन्ने जल्पितव्यानि ॥ ] वाक्क्षेपकाणि परहृन्निर्वृतिदानि प्रियाणि गदितानि । विरलो जानाति जनो ह्युत्पन्ने जल्पितव्यानि ॥ ४२ ॥
वाक्क्षेपकाणि प्रतिवादिवचनास्कन्दकानि । संप्रत्ययजननात्परहृदयस्य निर्वृतिदाय - कानि संतोषकराणि । उत्पन्ने अपराधादौ जल्पितव्यानि, प्रियाणि गदितानि (प्रियवचनानि ) विरलो जनो जानातीत्यर्थः । प्रत्यक्षमुत्पन्नमपराधं वीक्ष्य संदिहानस्य भर्तुर्वचनान्यभिभूय मधुरवचन कौशलेन त्वयैव तत्संतोष उत्पादित इति त्वमसाधारणासीत्याशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org