________________
११८
काव्यमाला |
[ सत्यं भणामि मरणे स्थितास्मि पुण्ये तटे ताप्याः । अद्यापि तत्र निकुञ्ज निपतति दृष्टिस्तथैव ॥ ]
सत्यं भणामि मरणे स्थितास्मि पुण्ये तटे ताप्याः । अद्यापि तत्र कुञ्जे निपतति दृष्टिस्तथैव मम ॥ ३९ ॥
मरणे स्थितास्मि, मरणपथसंनिहिता जातास्मीति वार्द्धक्यं सूच्यते । सेयं लोकशैली । तापीनद्याः पवित्रे तटे च स्थितास्मीति देहलीदीपवदुभयत्र संबन्धः । अथवा पवित्रे तापीतटे अभिसारार्थं यः कुञ्जस्तत्रेत्यप्रतनेन संबन्धः । तत्र यत्र बहुवारमभिसारो विहितस्तस्मिन्कुजे । यथा पूर्वमनुरागोन्मादादमिसारोत्सुका पतति स्म, तथैव I कथयतो जनस्य भणामीत्युक्तेर्बाधितत्वेन 'सत्यं विश्वासं जनयामि' इति लक्ष्यते । तथा च त्वां सत्यमात्मानुभवं कथयामीत्यात्मनो विश्वसनीयवाक्यत्वं द्योत्यते । एवं चास्मिन् समयेपि बहुसमये व्यतीतेपि न मे पूर्वभावापमार्जनमिति मञ्जिष्ठारागशालिनां न कदाचिद्भावेषु परिवर्तनं भवतीति रसिकचेतः स्थेमता ध्वन्यते । “स्त्रीषु कदापि विश्वासो न कर्तव्य इति बन्धुजनशिक्षार्थं काचिदाह" इति गङ्गाधरावतरणम् ।
कापि कुलयोषित्कुलटाजनप्रलोभितं भर्तारमुद्दिश्य सखीजनमाहअन्धअरबोरपचं व माउआ मह पई विलुम्पन्ति । ईसाअन्तिमहं विअ छेप्पाहिन्तो फणो जाओ ॥ ४० ॥ [ अन्धकरबदरपात्रमिव मातरो मम पतिं विलुम्पन्ति । ईर्ष्यन्ति मामेव लाङ्गूलेभ्यः फणो जातः ॥ ]
अन्धकरबदरभाजनमिव मम लुण्ठन्ति मातरो दयितम् । ईयन्ति मामेव च लाङ्गूलेभ्यः फणो जातः ॥ ४० ॥
हे मातरः ! एतेन सखीनां वयः प्रौढिरात्महितेच्छुकत्वं च सूच्यते । तेन च मामस्मात्संकटात्परित्रास्यध्वे इति कारुण्यमभिव्यज्यते । अन्धकरस्थितं बदरफलपात्रमिव मम दयितं लुण्ठन्ति आच्छिन्दन्ति चौर्येणाभिसरन्तीत्यर्थः । अथ मह्यमेव च ईर्ष्यन्ति, मम प्रियतमोपाश्रयणान्मत्तो विनययोग्यतायामपि मया सहैव ईर्ष्या कुर्वन्तीति भावः । अतो लाङ्गूलेभ्यः पुच्छेभ्यः फणो जातः । यद्धि पुच्छं पश्चाद्भावित्वेन निगूहनयोग्यं तदेव अग्रस्थानमासाद्य फणारूपेण दंशकमभवदित्यर्थः । लौकिकमाभाणकं चेदम् । अन्धकरे स्थितमित्यनेन सखीबुद्ध्या न ताभ्यो मया प्रियतमः पूर्वमवेक्षित इत्यात्मनो विश्वासवशादनवहितत्वं द्योत्यते । बदरपात्रमिवेत्युपमया 'अतिसम बदरपात्रं यथा हेलया लोका आच्छिन्दन्ति तथा असतीनां कृते अतिसुलभोभून्मे भर्ता' इत्यभिव्यज्यते । बदरभाजनमिति 'भाजन' पदेन बदरफलानामुपरित्वचि सुमसृणतया उन्मुक्तपात्रस्थितानां तेषामन्धहस्तान्निभृतमपसारणे न भवति प्रतीतिरिति सूच्यते । तेन च सरलानुरक्तहृदयो मे प्रियतमः सहजमेव प्रलोभ्य इति ध्वन्यते । विलुम्पन्तीति मूल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org