________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
११७
मिति करे धृता । विषजनितवेदनाव्याजेन करयुगमितस्ततः प्रक्षिपन्ती बाला । वृश्चिकदष्टेति व्याजेन पत्युरग्रत एव जारवैद्यगृहं नीता । अत्र वर्तमानार्थेन नार्थविशेषपुष्टिरिति 'नीयते' इत्यस्य स्थाने 'नीता' इति भूतकालिकप्रयोगो बन्धानुरोधेन । बाला - पदेन 'बालाया एव एतावत्पाटवं प्रगल्भायास्तस्यास्तु तत्किं वक्तव्यमित्याकूतमभिव्यज्यते । ततश्च 'पत्युरग्रत एव चेदेवं भवेत्तर्हि अन्यपरिजनस्य का गणनेतिमा तल्लामे संदिह्यताम्' इति दूत्या नायकप्रोत्साहनमभिव्यज्यते ।
क्षुद्रजनाः प्रयोजनैकमित्राणि भवन्तीति चातुर्येण सूचयन्ती पूर्वसुभगा नववधूसमर्पित प्रणय सर्वस्वं कान्तमन्यापदेशेनाह
विकिणह माहमासम्म पामरो पाइर्डि वल्लेण । मिमुम्मुर विअ सामलींअ थणो पडिच्छन्तो ॥ ३८ ॥
[ विक्रीणीते माघमासे पामरः प्रावरणं बलीवर्देन । निर्धूममुर्मुरनिभौ श्यामल्याः स्तनौ पश्यन् ॥ ]
विक्रीणीते माघे प्रावरणं पामरो हि वलदेन । निर्धूममुर्मुरनिभौ नूनं श्यामास्तनौ पश्यन् ॥ ३८ ॥
प्रावरणमुपर्यावरणपटम् । प्रावरणं प्रदाय बलीवर्दं क्रीणातीत्यर्थः । निर्धूममुर्मुरनिभौ सोष्मत्वेन शीतनिवारकत्वान्निर्धूमतुषाग्निसदृशौ । षोडशवार्षिक्याः नववध्वाः स्तनौ पश्यन् । पामरदृष्टौ शीतनिवारकयोः कुचयोर्मुर्मुरसादृश्यमिति ग्राम्यत्वं गुणो न दोषः । 'माघे ' इत्यनेन शीतबाहुल्यं सूचितम् । तथा च पामरो यथा संप्रति शीतबाधानिवारकौ श्यामास्तनावुपलभ्य दुःसहशीत संकटनिवर्तकतया पूर्वं बहुधा कृतोपकारमपि प्रावरणं परित्यजति, तथा लब्धाभिनववधूकस्य तव पूर्व दत्तप्रेमसर्वखयापि मया किं कार्यम् । परं तदिदं क्षुद्रतासूचकमित्युपालम्भो व्यज्यते । अत्र हीनपात्रनिष्ठा रतिरिति रसाभास इति सरखतीकण्ठाभरणम् । परमेतत् प्रौढिवादमात्रम् । अनौचित्यमेव हि आभासताप्रयोजकम् । स्वस्वभावानुसारमापामरमपि सर्वेषां रत्यादिभावानुभावित्वादास्वादस्याऽबाधत्वेन स्यादेव रसः । को वा तत्रानौचित्यप्रसङ्गः ? किं च हीनत्वं नाम सापेक्षम् । स्यादस्मद्वर्ष्यानामपि कस्यचिदुच्चपात्रस्यापेक्षया हीनत्वमित्यनवस्था । अतो यत्रानौचित्यं तत्रैव रसाभासता । अनौचित्यं च सहृदयव्यवहारतो ज्ञेयम् । यत्र तेषा - मनुचितमिति धीः प्रसज्यते तत्रैव तदिति कृतं प्रसक्तानुप्रसक्तेन ।
स्वभावरक्तानां काल - वयो- व्यत्ययेपि न मानसा भावा विपरिवर्तन्त इति सूच-यन्ती काचिदाह
सच्चं भणामि मरणे द्विअसि पुण्णे तडम्मि तावीए । अञ्ज वि तत्थ कुडने णिवडइ दिट्ठी तह बेअ ॥ ३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org