________________
११६
काव्यमाला |
विरहे विषमिव विषमाऽप्यमृतमयी भवति संगमेऽभ्यधिकम् । किं विधिना सममेव द्वाभ्यामपि निर्मिता दयिता ॥ ३५ ॥
वियोगे विषमिव विषमापि जीवितसंशयस्थानमपि संयोगे अत्यन्तममृतमयी जीवनौषधिर्भवति । अतः किं विधात्रा सममेव समभागाभ्यामेव द्वाभ्यां विषामृताभ्यां प्रिया निर्मिता ? तथा च प्रियैव मे जीवनसर्वस्वम्, इमां विना नाहं जीवितुं समर्थ इति नायकेनाभिव्यज्यते ।
नायिकेच्छानुसारं नायकस्य चिरप्रवासं युक्त्या निवारयन्ती वयोधिका काचिहूती
आह
अहंसणेण पुत्तअ सुडुवि हाणुबन्धघडिआई । हत्थउडपाणिआइँ व कालेज गलन्ति पेम्माई ॥ ३६ ॥ [ अदर्शनेन पुत्रक सुष्टुपि स्नेहानुबन्धघटितानि । हस्तपुटपानीयानीव कालेन गलन्ति प्रेमाणि ॥ ]
सुत चिरमदर्शनेन हि सुष्ठपि रागानुबन्धघटितानि । प्रेमाण्यञ्जलिसलिलानीव गलन्तीह कालेन ॥ ३६ ॥
पुत्र ! सुष्ठु सम्यक्प्रकारेण | स्नेहानुबन्धेन घटितानि परस्परमचलीकृतान्यपि प्रेमाणि, कालेन यथा हस्तपुटे नीतानि पानीयानि गलन्ति तथा चिरकालमदर्शनेन गलन्ति न्यूनीभवन्तीत्यर्थः । कालविलम्बे सति शनैः शनैः प्रस्रवणेन न्यूनीभवतामञ्जलिजलानां यथा न भवति प्रतीतिस्तथैव चिरकालं यावत्परस्परदर्शनाभावे शनैर्न्यनी - भवन्ति प्रेमाणि न प्रतीयन्त इति भावः । पुत्रेत्यनेन अवञ्चनीयतया हितोपदेश्यत्वं द्योत्यते । तथा च चिरप्रवासेन कदाचित्तस्याः प्रेमबन्धः शिथिलीभवेदिति भयं प्रदर्य प्रवासनिवारणं युक्तया ध्वन्यते । “चिरप्रवासागतेन भुजङ्गेनोपालब्धा वेश्यामाता भुजङ्गान्तरलनाया दुहितुर्दोषं परिहरन्ती आह" इति गङ्गाधरटीकावतरणम् ।
गृहजनसत्तायां कथं मत्समीहितं सेत्स्यतीति संशयानं कंचन युवानं प्रत्याययन्ती दूती स्त्रीणां बहुच्छलत्वमाह
पइपुरओ व्विणिजइ विच्छुअदट्ठेत्ति जारवेजघरम् । णिउणसहीकरधारिअ भुअजुअलन्दोलिणी बाला ॥ ३७ ॥ [ पतिपुरत एव नीयते वृश्चिकदष्टेति जारवैद्यगृहम् । निपुणसखीकरता भुजयुगलान्दोलनशीला बाला ॥ ] पतिपुरत एव नीता वृश्चिकदष्टेति जारवैद्यगृहम् । निपुण सखीकरविधृता भुजयुगलान्दोलिनी बाला ॥ ३७ ॥ निपुणाभिः रहस्यगोपनचतुराभिः सखीभिः, पीडाविकला माऽसौ पथि खिद्यता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org