________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
गतयौवनामपि सुरताद्यासक्तां कांचिदसतीं प्रति परिहासशीलः कश्चिदाहथणजहणणिअम्बोवरि णहरङ्का गअवआण वणिआणम् । उव्वसिआणङ्गणिवासमूलबन्ध व्व दीसन्ति ॥ ३३ ॥ [ स्तनजघन नितम्बोपरि नखराङ्का गतवयसां वनितानाम् । उद्वसितानङ्गनिवास मूलबन्धा इव दृश्यन्ते ॥ ] गतवयसां वनितानां स्तनजघननितम्बरूढनखराङ्काः । उद्वसितस्मरवसतेर्मूलविबन्धा इवावलोक्यन्ते ॥ ३३ ॥
स्तनजघन नितम्बोपरि जातानि नखक्षतानि, उद्वसिता शून्यीकृता या स्मरवसतिरनङ्गनिवासस्तस्या मूलबन्धा इव मूलबन्धनचिह्नानीव दृश्यन्त इत्यर्थः । कस्यचन पुरातन गृहस्योपरिभागः कालान्नश्यति केवलं मूलबन्धनमात्रं यथा दृश्यते तथेति भावः । एवं च स्तनजघननितम्बानां कामकेलिसमुचिता श्रीस्तु गता तत्स्मृतिचिह्नमात्रमेवेदानीमवशिष्यत इति निपुणमभिव्यञ्जितम् ।
सर्वेपि यूयं तां दृष्ट्वा आगताः । कथयत कीदृक्तस्या रूपमिति नायकेन पृष्टाः सहचरा आहुः
जस्स जहं विअ पढमं तिस्सा अङ्गम्मि णिवडिआ दिट्ठी । तस्स तहिं चेअ ठिआ सव्व केण वि ण दिट्ठम् ॥ ३४ ॥
[यस्य यत्रैव प्रथमं तस्या अङ्गे निपतिता दृष्टिः। तस्य तत्रैव स्थिता सर्वाङ्ग केनापि न दृष्टम् ॥ ]
तस्या अने प्रथमं यत्रैव हि यस्य निपतिता दृष्टिः ।
तत्रैव तस्य मना, सर्वाङ्गं किल न केनचिदृष्टम् ॥ ३४ ॥
११५
'विनिहिता' दिस्थाने 'निपतिता' इति कथनेन यदृच्छयापि गता दृष्टिर्निबध्यते किं पुनरभिलाषपुरस्सरमित्यङ्गानां लावण्यातिशयो व्यज्यते । तस्मिन्नेवाजे तस्य दृष्टिर्मभेत्यत्र 'मग्ना' इति पदेन अधिकालोचनबुद्ध्या दृष्टेः स्थिरतया अवशत्वं लक्ष्यते । तेन च लावण्यसिन्धुरिव सा सौन्दर्येणाऽगाधेति ध्वन्यते, तदेतन्मच्छायायामाधिक्यम् । सौन्दर्यसिन्धोस्तस्या एकैकाङ्गशोभादर्शने निश्चलनिलीना दृष्टिर्न सर्वाङ्गशोभादर्शनसमर्थेत्याशयः । एवं चाऽनिर्वचनीयं तस्या लावण्यमिति ध्वनितम् |
प्रवासे विरहवेदनामत्यन्तमनुभूय गृहमागतः प्रियतमासमागमेन संतुष्टः कश्चिदाहविरहे विसं व विसमा अमअमआ होइ संगमे अहिअम् । किं विहिणा समअं विअ दोहिं वि पि विणिम्मिअआ ||३५|| [ विरहे विषमिव विषमामृतमया भवति संगमेऽधिकम् । किं विधिना सममेव द्वाभ्यामपि प्रिया विनिर्मिता ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org