________________
११४
उपपतिं प्रति गाढानुरागं सूचयन्ती काचित्तन्मित्रमाह
तस्स अ सोहग्गगुणं अमहिलसरिसं च साहसं मज्झ । जाणइ गोलाऊरो वासारतोद्धरत्तो अ॥ ३१ ॥
काव्यमाला |
[ तस्य च सौभाग्यगुणममहिलासदृशं च साहसं मम । जानाति गोदापूरो वर्षारात्रार्धरात्रश्च ॥ ]
तस्य च सौभाग्यगुणं मम साहसमेतदमहिलासदृशम् । बोधति गोदापूरो वर्षासमयोऽर्द्धराच ॥ ३१ ॥
अमहिलासदृशं स्वभावभीरुषु वनिताखप्राप्यम् । मामन्तरा न काचिदपि रामा एतद्विधातुं समर्थति भावः । एतदिति स्ववर्णितस्य विश्वासार्थमिति बोध्यम् । एतन्मम साहसं वर्षासमयार्द्धरात्रे गोदावरीतरणं कृत्वा तदभिसरणरूपम् । बोधति जानाति । तस्यैतावत्सौभाग्यं यत्तदर्थमहं वर्षासु वेगवाहिनीं गोदावरीमन्धकारितदिगन्तेऽर्द्धरात्रेप्युत्तरामीति भावः । तथा चावयोर्मिथोनुरागवृत्तं न कोपि मानुषो जानातीति निभृतमभिव्यज्यते । अत्र वर्षासमय इति निगुम्फनं पुनरुक्तिपरिहारार्थम् । यदि तु मूलानुरोधस्तर्हि - 'वर्षारात्रोऽर्द्धरात्रश्व' इति पाठ्यम् । वर्षारात्रोर्द्धरात्र इति द्विःपाठेन 'तदभिसरणे रात्र्यर्द्धं व्यतीतम्, कदाचित्कदाचित्समग्रा रात्रिरेव व्यतीतेति सूचनेन नाय - केऽनुरागातिशयो ध्वन्यते ।
कथमधुना प्रेमचर्या परित्यक्तेति केनचित्कामुकेन साकूतमुक्ता कुलटा तं प्रति सखेदमाह
ते वोलिआ वअस्सा ताण कुडङ्गाण थाणुआ सेसा । अवि गवआओ मूलुच्छेअं गअं पेम्मम् ॥ ३२ ॥ [ ते व्यतिक्रान्ता वयस्यास्तेषां कुञ्जानां स्थाणवः शेषाः । वयमपि गतवयस्का मूलोच्छेद्यं गतं प्रेम ॥ ]
ते व्यतिगता वयस्याः कुञ्जास्ते स्थाणुमात्रपरिशेषाः । वत वयमपि गतवयसो मूलोच्छेदं गतं प्रेम ॥ ३२ ॥
यैः सह तादृशोऽनुराग आसीत्ते वयस्याः समानशीला व्यतिक्रान्ताः, अस्मानतीय दूरं गता इत्यर्थः । येषु तैः सह सुरतसुखमनुभूतं तेषां लताभवनानां स्थाणवोऽवशिष्टाः । अस्माकमपि तदनुकूलं वयो व्यतीतम् । अतो हन्त प्रेम मूलोच्छेदं गतम्, मूलतो नाशं प्राप्तमित्यर्थः । ' ते वयस्याः' इति वयस्यपदेन 'अस्माकं समानवयसस्त एवासन्, नववयोगर्वितस्त्वं तु नास्माकं वयःपरिपाककृतां प्रौढतां जानीया इति गूढ - मात्माभिप्रायो ध्वन्यते । मूलोच्छेद्यमिति तु गङ्गाधरानुमतः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org